2026-05-06 05:21:57 by ambuda-bot
This page has not been fully proofread.
५४२
सूत्रभाष्ये
[ पा. १.
णम् अविशेषादनारब्धफलं कृत्स्नमेव कर्माभिव्यनक्ति; तत्र
केनचित्कर्मणामुष्मिँल्लोके फलमारभ्यते, केनचिदस्मिन् इत्ययं
विभागो न संभवतीति तदप्यनुशयसद्भावप्रतिपादनेनैव
प्रत्युक्तम् । अपि च केन हेतुना प्रायणमनारब्धफलस्य कर्म-
णोऽभिव्यञ्जकं प्रतिज्ञायत इति वक्तव्यम्; आरब्धफलेन क-
र्मणा प्रतिबद्धस्येतरस्य वृत्त्युद्भवानुपपत्तेः, तदुपशमात् प्राय-
काले वृद्भवो भवतीति यद्दुच्येत ततो वक्तव्यम् — यथैव
तर्हि पाक्प्रायणात् आरब्धफलेन कर्मणा प्रतिबद्धस्य इतरस्य
वृत्त्युद्भवानुपपत्तिः, एवं प्रायणकालेऽपि विरुद्धफलस्यानेकस्य
कर्मणो युगपत्फलारम्भासंभवात् बलवता प्रतिबद्धस्य दुर्बलस्य
वृत्त्युद्भवानुपपत्तिरिति । न हि अनारब्धफलत्व सामान्येन
जात्यन्तरोपभोग्यफलमप्यनेकं कर्म एकस्मिन्प्रायणे युगपद-
भिव्यक्तं सत् एकां जातिमारभत इति शक्यं वक्तुम्, प्रति-
नियतफलत्वविरोधात्; नापि कस्यचित्कर्मणः प्रायणेऽभि-
व्यक्तिः कस्यचिदुच्छेद इति शक्यते वक्तुम्, ऐकान्तिकफल-
त्वविरोधात् ; न हि प्रायश्चित्तादिभिर्हेतुभिर्विना कर्मणामु-
च्छेद: संभाव्यते; स्मृतिरपि विरुद्धफलेन कर्मणा प्रतिबद्ध-
स्य कर्मान्तरस्य चिरमवस्थानं दर्शयति — ' कदाचित्सु-
कृतं कर्म कूटस्थमिह तिष्ठति । मज्जमानस्य संसारे यावद्दु :-