2026-05-06 05:21:56 by ambuda-bot
This page has not been fully proofread.
सू. ८. ]
तृतीयोऽध्यायः ।
५४१
स्यैव स्वर्गफलं निखिलं न जनयति, स्वर्गच्युतस्यापि कंचि -
त्फललेशं जनयतीति न शब्दप्रमाणकानामीदृशी कल्पना
अवकल्पते; स्नेहभाण्डे तु स्नेहलेशानुवृत्तिर्दृष्टत्वादुपपद्यते ;
तथा सेवकस्योपकरणलेशानुवृत्तिश्च दृश्यते ; न त्विह तथा
स्वर्गफलस्य कर्मणो लेशानुवृत्तिर्दृश्यते; नापि कल्पयितुं
शक्यते, स्वर्गफलत्वशास्त्रविरोधात् । अवश्यं चैतदेवं विशे-
यम् - न स्वर्गफलस्येष्टादे: कर्मणो भाण्डानुसारिस्नेहवदेक-
देशोऽनुवर्तमानोऽनुशय इति ; यदि हि येन सुकृतेन कर्मणा
इष्टादिना स्वर्गभन्वभूवन् तस्यैव कश्चिदेकदेशोऽनुशयः
कल्प्येत, ततो रमणीय एवैकोऽनुशयः स्यात्, न विपरीतः ;
तत्रेयमनुशयविभागश्रुतिरुपरुध्येत - ' तद्य इह रमणीयच-
रणा:...अथ य इह कपूयचरणा:' इति । तस्मादामुष्मि-
कफले कर्मजाते उपभुक्तेऽवशिष्टमैहिकफलं कर्मान्तरजातम-
नुशयः, तद्वन्तोऽवरोहन्तीति ॥
"
।
-----
यदुक्तम्- ' यत्किंच' इत्यविशेषपरामर्शात्सर्वस्येह कृ-
तस्य कर्मण: फलोपभोगेनान्तं प्राप्य निरनुशया अवरोह-
न्तीति, नैतदेवम्; अनुशयसद्भावस्यावगमितत्वात्, यत्किं -
चिदिह कृतमामुष्मिकफलं कर्म आरब्धभोगम्, तत्सर्वं
फलोपभोगेन क्षपयित्वा - इति गम्यते । यदप्युक्तम् — प्राय-
S. W. II. 17