2026-05-06 05:21:55 by ambuda-bot
This page has not been fully proofread.
५४०
सूत्रभाष्ये
[पा. १.
रपि — ' वर्णा आश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य कर्मफलमनुभूय
ततः शेषेण विशिष्टदेशजातिकुलरूपायुः श्रुतवृत्त वित्तसुखमेध-
सो जन्म प्रतिपद्यन्ते' इति सानुशयानामेवावरोहं दर्शयति ॥
कः पुनरनुशयो नामेति - केचित्तावदाहुः - स्वर्गार्थस्य
कर्मणो भुक्तफलस्यावशेष: कश्चिदनुशयो नाम, भाण्डानुसा-
रिस्नेहवत् - यथा हि स्नेहभाण्डं रिच्यमानं न सर्वात्मना रि-
च्यते, भाण्डानुसार्येव कश्चित्स्नेहशेषोऽवतिष्ठते, तथा अनुश-
योऽपीति । ननु कार्यविरोधित्वाददृष्टस्य न भुक्तफलस्यावशेषा-
वस्थानं न्याय्यम् ; नायं दोषः ; न हि सर्वात्मना भुक्तफलत्वं
कर्मण: प्रतिजानीमहे । ननु निरवशेषकर्मफलोपभोगाय च-
न्द्रमण्डलमारूढा: ; बाढम् - तथापि स्वल्पकर्मावशेषमात्रेण
तत्रावस्थानं न लभ्यते ; यथा किल कश्चित्सेवकः सकलैः
सेवोपकरणैः राजकुलमुपसृप्तश्चिरप्रवासात्परिक्षीणबहूपकरण-
छत्रपादुकादिमालावशेषो न राजकुलेऽवस्थातुं शक्नोति,
एवमनुशय मात्रपरिग्रहो न चन्द्रमण्डलेऽवस्थातुं शक्नोतीति ॥
न चैतद्युक्तमिव । न हि स्वर्गार्थस्य कर्मणो भुक्तफलस्या-
वशेषानुवृत्तिरुपपद्यते, कार्यविरोधित्वात् - इत्युक्तम् । नन्वेत-
दप्युक्तम्- न स्वर्गफलस्य कर्मणो निखिलस्य भुक्तफलत्वं
भविष्यतीति ; तदेतद्पेशलम् - स्वर्गार्थं किल कर्म स्वर्गस्थ -