2026-05-06 05:21:54 by ambuda-bot
This page has not been fully proofread.
सू. ८.]
तृतीयोऽध्यायः ।
५३९
न हि साधारणे निमित्ते नैमित्तिकमसाधारणं भवितुमर्हति ;
न विशिष्टे प्रदीपसंनिधौ, घटोऽभिव्यज्यते न पट इत्युपप-
द्यते । तस्मान्निरनुशया अवरोहन्तीत्येवं प्राप्ते-
"
ब्रूमः - कृतात्ययेऽनुशयवानिति । येन कर्मबृन्देन च-
न्द्रमसमारूढाः फलोपभोगाय तस्मिन्नुपभोगेन क्षयिते, तेषां
यदम्मयं शरीरं चन्द्रमस्युपभोगायारब्धम्, तत् उपभोगक्ष-
यदर्शनशोकाग्निसंपर्कात्प्रविलीयते - सवितृ किरण संपर्कादिव
हिमकरका:, हुतभुगचिः संपर्कादिव च घृतकाठिन्यम् ; ततः
कृतात्यये कृतस्येष्टादेः कर्मण: फलोपभोगेनोपक्षये सति, सा-
नुशया एवेममवरोहन्ति; केन हेतुना ? दृष्टस्मृतिभ्यामित्या-
ह । तथा हि प्रत्यक्षा श्रुतिः सानुशयानामवरोहं दर्शयति--
तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनि-
मापद्येरन्ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वाथ य
इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्येरञ्श्व-
योनिं वा सूकरयोनिं वा चाण्डालयोनिं वा' इति ; चरण-
शब्देनानुशयः सूच्यत इति वर्णयिष्यति । दृष्टश्वायं जन्मनैव
प्रतिप्राण्युच्चावचरूप उपभोगः प्रविभज्यमान आकस्मिकत्वा-
संभवादनुशयसद्भावं सूचयति, अभ्युदयप्रत्यवाययोः सुकृत-
दुष्कृतहेतुत्वस्य सामान्यतः शास्त्रेणावगमितत्वात् । स्मृति-
-