2026-05-06 05:21:54 by ambuda-bot
This page has not been fully proofread.
५३८
सूत्रभाष्ये
[पा. १.
6
पातमुषित्वाथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतम्' इत्यारभ्य, -
२. कृतात्यया- यावत्— रमणीयचरणा ब्राह्मणादियोनि-
धिकरणम् । मापद्यन्ते कपूयचरणाः श्वादियोनिमि-
ति । तत्रेदं विचार्यते- किं निरनुशया भुक्तकृत्स्नकर्मा-
णोऽवरोहन्ति, आहोस्वित्सानुशया इति । किं तावत्प्राप्तम् ?
निरनुशया इति ; कुत: ? ' यावत्संपातम्' इति विशेषणात् -
संपातशब्देनात कर्माशय उच्यते, संपतन्ति अनेन अस्मा-
लोकात अमुं लोकं फलोपभोगायेति यावत्संपात मुषित्वा '
इति च कृत्स्नस्य तस्य कृतस्य तत्रैव भुक्ततां दर्शयति ;
' तेषां यदा तत्पर्यवैति' इति च श्रत्यन्तरेणैष एवार्थः प्रद-
शर्यते । स्यादेतत् — यावदमुष्मिँल्लोके उपभोक्तव्यं कर्म
तावदुपभुङ्क इति कल्पयिष्यामीति ; नैवं कल्पयितुं शक्यते,
'यत्किंच' इत्यन्यत्र परामर्शात्- ' प्राप्यान्तं कर्मणस्तस्य य-
त्किंचेह करोत्ययम् । तस्माल्लोकात्पुनरैत्यस्मै लोकाय कर्मणे '
इति हि अपरा श्रुति: ' यत्किंच' इत्यविशेषपरामर्शेन कृत्स्न-
स्येह कृतस्य कर्मणः तत्र क्षयिततां दर्शयति । अपि च प्राय-
णमनारब्धफलस्य कर्मणोऽभिव्यञ्जकम् ; प्राक्प्रायणात् आ-
रब्धफलेन कर्मणा प्रतिबद्धस्याभिव्यक्त्यनुपपत्तेः ; तच्च
अविशेषाद्यावत्किंचिदनारब्धफलं तस्य सर्वस्याभिव्यञ्जकम् ;