Proofing

This page has not been fully proofread.

सू. ८. ]
 
तृतीयोऽध्यायः ।
 
५३७
 
अनात्मवित्त्वात् तथा हि दर्शयति इत्यस्य अपरा व्याख्या-
अनात्मविदो ह्येते केवलकर्मिण इष्टादिकारिणः, न ज्ञानकर्मस-
मुच्चयानुष्ठायिनः पञ्चाग्निविद्यामिह आत्मविद्येत्युपचरन्ति,
प्रकरणात्; पञ्चाग्निविद्याविहीनत्वाच्चेदमिष्टादिकारिणां गुण-
वादेनान्नत्वमुद्भाव्यते पञ्चाग्निविज्ञानप्रशंसायै; पञ्चाग्निवि-
येह विधित्सिता, वाक्यतात्पर्यावगमात् तथा हि श्रुत्यन्तरं
चन्द्रमण्डले भोगसद्भावं दर्शयति-- 'स सोमलोके विभू-
तिमनुभूय पुनरावर्तते' इति ; तथा अन्यदपि श्रुत्यन्तरम्
'अथ ये शतं पितॄणां जितलोकानामानन्दाः स एक: कर्म -
देवानामानन्दो ये कर्मणा देवत्वमभिसंपद्यन्ते' इति इष्टादि-
कारिणां देवैः सह संवसतां भोगप्राप्तिं दर्शयति । एवं
भाक्तत्वादन्नभाववचनस्य, इष्टादिकारिणोऽत्र जीवा रह-
तीति प्रतीयते । तस्मात् ' रंहति संपरिष्वक्त:' इति
युक्तमेवोक्तम् ॥
 
कृतात्ययेऽनुशयवान्दृष्टस्मृतिभ्यां यथे-
तमनेवं च ॥ ८ ॥
 
इष्टादिकारिणां धूमादिना वर्त्मना चन्द्रमण्डलमधिरूढानां
भुक्तभोगानां ततः प्रत्यवरोह आम्नायते— 'तस्मिन्यावत्सं-