2026-05-06 05:21:52 by ambuda-bot
This page has not been fully proofread.
५३६
सूत्रभाष्ये
[पा. १.
वा-शब्दश्योदितदोषव्यावर्तनार्थः । भाक्तमेषामन्नत्वम्, न
मुख्यम्; मुख्येान्नत्वे 'स्वर्गकामो यजेत' इत्येवंजातीयका-
धिकारश्रुतिरुपरुध्येत ; चन्द्रमण्डले चेदिष्टादिकारिणामुपभो-
गो न स्यात्, किमर्थमधिकारिण इष्टादि आयासबहुलं कर्म
कुर्युः । अन्नशब्दश्चोपभोगहेतुत्वसामान्यात् अनन्नेऽप्युपचर्य-
माणो दृश्यते, यथा- विशोऽन्नं राज्ञां पशवोऽन्नं विशामि -
ति । तस्मादिष्टस्त्री पुत्रमित्रभृत्यादिभिरिव गुणभावोपगतैरि-
ष्टादिकारिभिर्यत्सुखविहरणं देवानाम्, तदेवैषां भक्षणमभि-
प्रेतम्, न मोदकादिवच्चर्वणं निगरणं वा । ' न ह वै देवा
अनन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति' इति च देवानां
चर्वणादिव्यापारं वारयति । तेषां च इष्टादिकारिणां देवान्प्र-
ति गुणभावोपगतानामप्युपभोग उपपद्यते, राजोपजीविना-
मिव परिजनानाम् । अनात्मवित्त्वाच इष्टादिकारिणां देवो-
पभोग्यभाव उपपद्यते ; तथा हि श्रुतिरनात्मविदां देवोपभो-
ग्यतां दर्शयति- 'अथ योऽन्यां देवतामुपास्तेऽन्योऽसा-
वन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम्'
इति ; स चास्मिन्नपि लोके इष्टादिभिः कर्मभिः प्रीणयन्पशु-
वद्देवानामुपकरोति, अमुष्मिन्नपि लोके तदुपजीवी तदादिष्टं
फलमुपभुञ्जानः पशुवदेव देवानामुपकरोतीति गम्यते ॥