Proofing

This page has not been fully proofread.

सू. ७.]
 
तृतीयोऽध्यायः ।
 
५३५
 
'असौ स्वर्गीय लोकाय स्वाहा' इति ततस्ता: श्रद्धापूर्वक -
कर्मसमवायिन्य आहुतिमय्य आपोऽपूर्वरूपाः सत्यः तानि -
ष्टादिकारिणो जीवान्परिवेष्ट्य अमुं लोकं फलदानाय नयन्ती -
ति यत्, तदत्र जुहोतिना अभिधीयते - श्रद्धां जुह्वतीति ।
तथा च अग्निहोत्रे षट्प्र श्रीनिर्वचन रूपेण वाक्यशेषेण 'ते वा
एते आहुती हुते उत्क्रामतः' इत्येवमादिना अग्निहोत्राहुत्योः
फलारम्भाय लोकान्तरप्राप्तिर्दर्शिता । तस्मादाहुतीमयीभि-
रद्भिः संपरिष्वक्ता जीवा रंहन्ति स्वकर्मफलोपभोगायेति
ऋष्यते ॥
 
कथं पुनरिदमिष्टादिकारिणां स्वकर्मफलोपभोगाय रंहणं
प्रतिज्ञायते, यावता तेषां धूमप्रतीकेन वर्त्मना चन्द्रमसमधि-
रूढानामन्नभावं दर्शयति- ' एष सोमो राजा तद्देवानामन्नं
तं तेवा भक्षयन्ति' इति, ' ते चन्द्रं प्राप्यान्नं भवन्ति तांस्तत्र
देवा यथा सोमं राजानमाप्यायस्वापक्षीय स्वेत्येवमेतांस्तत्र भ-
क्षयन्ति' इति च समानविषयं श्रुत्यन्तरम् ? न च व्याघ्रा-
दिभिरिव देवैर्भक्ष्यमाणानामुपभोगः संभवतीति; अत उ-
उत्तरं पठति-
 
भाक्तं वानात्मवित्त्वात्तथाहि
दर्शयति ॥ ७ ॥