2026-05-06 05:21:51 by ambuda-bot
This page has not been fully proofread.
५३४
सूत्रभाष्ये
[ पा. १.
इव पुरुषेषु ; श्रद्धा हेतुत्वाच्च श्रद्धाशब्दोपपत्ति:, ' आपो हास्मै
श्रद्धां संनमन्ते पुण्याय कर्मणे' इति श्रुतेः ॥
अश्रुतत्वादिति चेनेष्टादिकारिणां
प्रतीतेः ॥ ६ ॥
अथापि स्यात् प्रश्नप्रतिवचनाभ्यां नाम आप: श्रद्धा-
दिक्रमेण पञ्चम्यामाहुतौ पुरुषाकारं प्रतिपद्येरन्; न तु
तत्संपरिष्वक्ता जीवा रहेयुः, अश्रुतत्वात् -- न ह्यत्र अपामिव
जीवानां श्रावयिता कश्चिच्छन्दोऽस्ति ; तस्मात् ' रंहति
संपरिष्वक्तः' इत्ययुक्तम् - इति चेत्, नैष दोषः ; कुत: ?
इष्टादिकारिणां प्रतीते:- ' अथ य इमे ग्राम इष्टापूर्ते दत्त-
मित्युपासते ते धूममभिसंभवन्ति ' इत्युपक्रम्य इष्टादिकारिणां
धूमादिना पितृयाणेन पथा चन्द्रप्राप्तिं कथयति
चन्द्रमसमेष सोमो राजा' इति ; त एवेहापि प्रतीयन्ते,
' तस्मिन्नेतस्मिन्ननौ देवा: श्रद्धां जुह्वति तथा आहुते: सोमो
राजा संभवति' इति श्रुतिसामान्यात् । तेषां च अग्निहोत्र-
दर्शपूर्णमासादिकर्मसाधनभूता दधिपयःप्रभृतयो द्रवद्रव्यभूय-
स्त्वात्प्रत्यक्षमेव आपः सन्ति ; ता आहवनीये हुता: सूक्ष्मा
आहुत्योsपूर्वरूपाः सत्यः तानिष्टादिकारिण आश्रयन्ति -
तेषां च शरीरं नैधनेन विधानेनान्त्येनावृत्विजो जुह्वति -
आकाशा-