Proofing

This page has not been fully proofread.

सू. ५. ]
 
तृतीयोऽध्यायः ।
 
५३३
 
साहसमेतत्; श्रद्धा च नाम प्रत्ययविशेषः, प्रसिद्धिसामर्थ्यात्;
तस्मादयुक्तः पञ्चम्यामाहुतावपां पुरुषभाव इति चेत्-
 
नैष दोष: ; हि यतः तत्रापि प्रथमेऽग्नौ ता एवाप: श्रद्धा-
शब्देनाभिप्रेयन्ते ; कुत: ? उपपत्तेः ; एवं ह्यादिमध्यावसान-
संगानात् अनाकुलमेतदेकवाक्यमुपपद्यते इतरथा पुनः,
पञ्चम्यामाहुतौ अपां पुरुषवचस्त्वप्रकारे पृष्ठे, प्रतिवचनाव-
सरे प्रथमाहुतिस्थाने यद्यनपो होम्यद्रव्यं श्रद्धां नामावता-
रयेत् - ततः अन्यथा प्रश्नोऽन्यथा प्रतिवचनमित्येकवा-
क्यता न स्यात् । ' इति तु पञ्चम्यामाहुतावाप: पुरुषव-
चसो भवन्ति' इति च उपसंहरन् एतदेव दर्शयति । श्रद्धा-
कार्य च सोमवृष्टयादि स्थूलीभवदब्बहुलं लक्ष्यते ; सा च
श्रद्धाया अवे युक्ति: । कारणानुरूपं हि कार्य भवति । न च
श्रद्धाख्यः प्रत्ययः, मनसो जीवस्य वा धर्मः सन् धर्मिणो
निष्कृष्य होमायोपादातुं शक्यते- पश्वादिभ्य इव हृदयादीनि
इति, आप एव श्रद्धाशब्दा भवेयुः । श्रद्धाशब्दश्चाप्सूप-
पद्यते, वैदिकप्रयोगदर्शनात् - ' श्रद्धा वा आप:' इति । तनुत्वं
श्रद्धासारूप्यं गच्छन्ति आपो देहबीजभूता इत्यतः, श्रद्धाशब्दाः
स्यु: - यथा सिंहपराक्रमो नरः सिंहशब्दो भवति । श्रद्धा-
पूर्वककर्म समवायाच अप्सु श्रद्धाशब्द उपपद्यते, मञ्चशब्द