2026-05-06 05:21:49 by ambuda-bot
This page has not been fully proofread.
५.३२
,
सूत्रभाष्ये
[पा. १.
शा:' इति हि तवाम्नायते, न हि लोमानि केशाश्चोत्लुत्य
ओषधीर्वनस्पतींश्च गच्छन्तीति संभवति ; न च जीवस्य
प्राणोपाधिप्रत्याख्याने गमनमवकल्पते; नापि प्राणैर्विना देहा-
न्तरे उपभोग उपपद्यते ; विस्पष्टं च प्राणानां सह जीवेन
गमनमन्यत्र श्रावितम; अतो वागाद्यधिष्ठात्रीणामग्न्यादिदे-
वतानां वागाद्युपकारिणीनां मरणकाले उपकारनिवृत्तिमात्रम -
पेक्ष्य - वागादयोऽग्न्यादीन्गच्छन्तीत्युपचर्यते ॥
प्रथमेऽश्रवणादिति चेन्न ता एव
ह्युपपत्तेः ॥ ५ ॥
स्यादेतत् कथं पुन: ' पञ्चम्यामाहुतावापः पुरुषवच-
सो भवन्ति' इत्येतत् निर्धारयितुं पार्थते, यावता नैव प्रथ-
मेऽग्नावषां श्रवणमस्ति ?— इह हि द्युलोकप्रभृतयः पञ्चाग्नयः
पश्चानामाहुतीनामाधारत्वेनाधीता: ; तेषां च प्रमुखे 'असौ
वाव लोको गौतमाग्निः' इत्युपन्यस्य ' तस्मिन्नेतस्मिन्नन्नौ
देवा: श्रद्धां जुह्वति' इति श्रद्धा होम्यद्रव्यत्वेन आवेदिता ; न
तत्र आपो होम्यद्रव्यतया श्रुताः ; यदि नाम पर्जन्यादिषूत्तरेषु
चतुर्ध्वनिध्वपां होम्यद्रव्यता परिकल्प्येत, परिकल्प्यतां नाम,
तेषु होतव्यतयोपात्तानां सोमादीनामब्बहुलत्वोपपत्तेः ; प्रथमे
त्वग्नौ श्रुतां श्रद्धां परित्यज्य अश्रुता आपः परिकल्प्यन्त इति