2026-05-06 05:21:49 by ambuda-bot
This page has not been fully proofread.
सू. ४.]
तृतीयोऽध्यायः ।
५३१
वक्ष्यति ; तस्मादप्यपां बाहुल्य प्रसिद्धि: । बाहुल्याच्च अपशव्देन
सर्वेषामेव देहबीजानां भूतसूक्ष्माणामुपादानमिति निरवद्यम् ॥
प्राणगतेश्व ॥ ३ ॥
प्राणानां च देहान्तरप्रतिपत्तौ गतिः श्राव्यते—- 'तमु-
त्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा
अनूत्क्रामन्ति' इत्यादिश्रुतिभिः सा च प्राणानां गतिर्ना-
श्रयमन्तरेण संभवतीत्यतः, प्राणगतिप्रयुक्ता तदाश्रयभूता-
नामपामपि भूतान्तरोपसृष्टानां गतिरर्थादवगम्यते ; न हि
निराश्रयाः प्राणाः कचिद्गच्छन्ति तिष्ठन्ति वा जीवतो
दर्शनात् ॥
अग्न्यादिगतिश्रुतेरिति चेन्न
भाक्तत्वात् ॥ ४ ॥
स्यादेतत्-नैव प्राणा देहान्तरप्रतिपत्तौ सह जीवेन गच्छ-
न्ति, अग्न्यादिगतिश्रुतेः ; तथा हि श्रुतिः मरणकाले वागा-
दय: प्राणा अग्न्यादीन्देवान्गच्छन्तीति दर्शयति- 'यत्रास्य
पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राण:' इत्यादिना इति
चेत्, न, भाक्तत्वात्; वागादीनामग्न्यादिगतिश्रुतिर्गौणी,
लोमसु केशेषु च अदर्शनात् - ' ओषधीर्लोमानि वनस्पतीन्के-