Proofing

This page has not been fully proofread.

५३०
 
सूत्रभाष्ये
 
[पा. १.
 
ननु उदाहृताभ्यां प्रश्नप्रतिवचनाभ्यां केवलाभिरद्भि: संप-
रिष्वक्तो रहतीति प्राप्नोति, अपशब्दश्रवणसामर्थ्यात् ; तत्र
कथं सामान्येन प्रतिज्ञायते - सर्वैरेव भूतसूक्ष्मैः संपरिष्व-
तो रहतीति ? अत उत्तरं पठति-
 
व्यात्मकत्वात्तु भूयस्त्वात् ॥ २ ॥
 
तु शब्देन चोदितामाशङ्कामुच्छिनत्ति । त्र्यात्मिका हि
आप:, त्रिवृत्करणश्रुतेः; तास्वारम्भिकास्वभ्युपगतास्वितरदपि
भूतद्वयमवश्यमभ्युपगन्तव्यं भवति । ज्यात्मकश्च देहः, त्रया-
णामपि तेजोबन्नानां तस्मिन्कार्योपलब्धेः । पुनश्च त्र्यात्मकः,
त्रिधातुत्वात् - त्रिभिर्वातपित्तश्लेष्मभिः न स भूतान्तराणि
प्रत्याख्याय केवलाभिरद्भिरारब्धुं शक्यते । तस्माद्भूयस्त्वा-
पेक्षोऽयम्- 'आपः पुरुषवचसः' इति - प्रश्नप्रतिवचनयो-
रप्शब्दः, न कैवल्यापेक्ष: ; सर्वदेहेषु हि रसलोहितादिद्रव-
भूयस्त्वं दृश्यते । ननु पार्थिवो धातुर्भूयिष्ठो देहेषूपलक्ष्यते ;
नैष दोष:- इतरापेक्षया अपां बाहुल्यं भविष्यति ; दृश्यते
च शुक्रशोणितलक्षणेऽपि देहबीजे द्रवबाहुल्यम् । कर्म च नि-
मित्तकारणं देहान्तरारम्भे ; कर्माणि च अग्निहोत्रादीनि सोमा-
ज्यपयः प्रभृतिद्रवद्रव्यव्यपाश्रयाणि कर्मसमवायिन्यश्च आपः
श्रद्धाशब्दोदिताः सह कर्मभिर्युलोकाख्येऽग्नौ हूयन्त इति