2026-05-06 05:21:48 by ambuda-bot
This page has not been fully proofread.
सू. १.]
तृतीयोऽध्यायः ।
५२९
म्; तथा हि प्रश्नः - ' वेत्थ यथा पञ्चम्यामाहुतावाप:
१. तदन्तर-
पुरुषवचसो भवन्ति' इति ; निरूपणं च
प्रतिपत्स्य प्रतिवचनम्, युपर्जन्यपृथिवीपुरुषयोषि-
धिकरणम् । त्सु पञ्चस्वग्निषु श्रद्धासोमवृष्टयन्नरेतो-
रूपाः पञ्च आहुतीदर्शयित्वा -' इति तु पञ्चम्यामाहुतावाप:
पुरुषवचसो भवन्ति' इति तस्मादद्भिः परिवेष्टितो
जीवो रंहति व्रजतीति गम्यते । नन्वन्या श्रुतिः जलूकाव-
त्पूर्वदेहं न मुञ्चति यावन्न देहान्तरमाक्रमतीति दर्शयति-
' तद्यथा तृणजलायुका' इति तत्राप्यप्परिवेष्टितस्यैव
जीवस्य कर्मोपस्थापितप्रतिपत्तव्यदेहविषयभावनादीर्घीभाव-
मात्रं जलूकयोपमीयत इत्यविरोधः । एवं श्रुत्युक्ते देहान्तर-
प्रतिपत्तिप्रकारे सति, या: पुरुषमतिप्रभवा: कल्पना:---
व्यापिनां करणानामात्मनश्च देहान्तरप्रतिपत्तौ कर्मवशाद्द्-
त्तिलाभस्तत्र भवति - केवलस्यैवात्मनो वृत्तिलाभस्तत्र भ
वति, इन्द्रियाणि तु देहवदभिनवान्येव तत्र तत्र भोगस्थाने
उत्पद्यन्ते, — मन एव वा केवलं भोगस्थानमभिप्रतिष्ठते, -
जीव एव वा उत्प्लुत्य देहाद्देहान्तरं प्रतिपद्यते, शुक इव
वृक्षाद्वृक्षान्तरम् - इत्येवमाद्याः, ताः सर्वा एव अनादर्तव्याः,
श्रुतिविरोधात् ॥