Proofing

This page has not been fully proofread.

५२८
 
सूत्रभाष्ये
 
[पा. १.
 
समनस्कोऽविद्याकर्म पूर्वप्रज्ञापरिग्रहः पूर्वदेहं विहाय देहान्तरं
प्रपद्यत इत्येतदवगतम् - 'अथैनमेते प्राणा अभिसमायन्ति '
इत्येवमादे: ' अन्यन्नवतरं कल्याणतरं रूपं कुरुते' इत्येव -
मन्तात् "संसारप्रकरणस्थाच्छब्दात्, धर्माधर्मफलोपभोग-
संभवाच्च स किं देहबीजैर्भूतसूक्ष्मैरसंपरिष्वक्तो गच्छति,
आहोस्वित्सं परिष्वक्तः - इति चिन्त्यते ॥
 
;
 
-
 
किं तावत्प्राप्तम् ? असंपरिष्वक्त इति ; कुत: ? करणोपा-
दानवद्भूतोपादानस्य अश्रुतत्वात् - 'स एतास्तेजोमात्रा: स-
मभ्याददान:' इति ह्यत्र तेजो मात्राशब्देन करणानामुपादानं
संकीर्तयति, वाक्यशेषे चक्षुरादिसंकीर्तनात् नैवं भूतमा-
त्रोपादानसंकीर्तनमस्ति ; सुलभाश्च सर्वत्र भूतमात्रा:, यत्रैव
देह आरब्धव्यस्तत्रैव सन्ति ; ततश्च तासां नयनं निष्प्रयोज-
नम् ; तस्मादसंपरिष्वक्तो याति- इत्येवं प्राप्ते, पठत्याचार्य:-
तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः
प्रश्ननिरूपणाभ्याम् ॥ १ ॥
 
-
 
तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्त इति । तदन्तरप्रति-
पत्तौ देहान्तरप्रतिपत्तौ, देहबीजैर्भूतसूक्ष्मैः संपरिष्वक्तः,
रहति गच्छति - इत्यवगन्तव्यम् ; कुत: ? प्रश्ननिरूपणाभ्या-