2026-05-06 05:21:47 by ambuda-bot
This page has not been fully proofread.
॥ तृतीयोऽध्यायः ॥ .
द्वितीयेऽध्याये स्मृतिन्यायविरोधो वे-
। दान्तविहिते ब्रह्मदर्शने परिहृतः, परप-
क्षाणां च अनपेक्षत्वं प्रपञ्चितम् श्रुति-
"
विप्रतिषेधश्च परिहृतः ; तत्र च जीवव्य-
। तिरिक्तानि तत्त्वानि जीवोपकरणानि
ब्रह्मणो जायन्त इत्युक्तम् । अथेदानीम्
उपकरणोपहितस्य जीवस्य संसारगतिप्रकारः तदवस्थान्तराणि
ब्रह्मतत्त्वं विद्याभेदाभेदौ गुणोपसंहारानुपसंहारौ सम्यग्दर्श-
नात्पुरुषार्थसिद्धिः सम्यग्दर्शनोपायविधिप्रभेदः मुक्तिफला-
नियमश्च - इत्येतदर्थजातं तृतीये निरूपयिष्यते ; प्रसङ्गागतं
च किमप्यन्यत् । तत्र प्रथमे तावत्पादे पञ्चाग्निविद्यामाश्रित्य
संसारगतिप्रभेदः प्रदर्श्यते वैराग्यहेतो:- 'तस्माज्जुगुप्सेत '
इति च अन्ते श्रवणात् । जीवो मुख्यप्राणसचिवः सेन्द्रियः