2026-05-06 05:21:45 by ambuda-bot
This page has not been fully proofread.
सू. २२. ]
द्वितीयोऽध्यायः ।
५२१
विधीयते तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति यो
मध्यमस्तन्मांसं योऽणिष्ठस्तन्मन: ' इति ; विवृत्कृता भूमि-
रेवैषा व्रीहियवाद्यन्नरूपेण अद्यत इत्यभिप्राय: ; तस्याश्च
स्थविष्टं रूपं पुरीषभावेन बहिर्निर्गच्छति; मध्यममध्यात्मं
मांसं वर्धयति ; अणिष्ठं तु मनः । एवमितरयोरप्लेजसोर्य-
थाशब्दं कार्यमवगन्तव्यम् - मूत्रं लोहितं प्राणश्च अपां
कार्यम्, अस्थि मज्जा वाक् तेजस: - इति ॥
अत्राह- यदि सर्वमेव त्रिवृत्कृतं भूतभौतिकम्, अवि-
शेषश्रुते:- ' तासां त्रिवृतं त्रिवृतमेकैकामकरोत्' इति, किंकृ-
तस्तर्ह्ययं विशेषव्यपदेश:- इदं तेज:, इमा आपः, इद-
मन्नम् इति ? तथा अध्यात्मम् - इदमन्नस्याशितस्य कार्य
मांसादि, इदमपां पीतानां कार्य लोहितादि, इदं तेजसोऽशि-
तस्य कार्यमस्थ्यादि इति ? अत्रोच्यते-
वैशेष्यात्तु तद्वादस्तद्वादः ॥ २२ ॥
,
तु- शब्देन चोदितं दोषमपनुदति विशेषस्य भावो
वैशेष्यम् भूयस्त्वमिति यावत्; सत्यपि त्रिवृत्करणे कचि-
त्कस्यचिद्भूतधातोर्भूयस्त्वमुपलभ्यते- अग्नेस्तेजोभूयस्त्वम्,
उदकस्यान्भूयस्त्वम्, पृथिव्या अन्नभूयस्त्वम् इति । व्यवहार-
S. W. II. 16