2026-05-06 05:21:44 by ambuda-bot
This page has not been fully proofread.
५२०
सूत्रभाष्ये
[ पा. ४.
दिना; तत्राग्निरिति इदं रूपं व्याक्रियते, सति च रूपव्या-
करणे विषयप्रतिलम्भादग्निरिति इदं नाम व्याक्रियते ; एव-
मेवादित्यचन्द्र विद्युत्स्वपि द्रष्टव्यम् । अनेन च अग्न्याद्युदाहरणे-
न भौमाम्भसतैजसेषु त्रिष्वपि द्रव्येष्वविशेषेण त्रिवृत्करण-
मुक्तं भवति, उपक्रमोपसंहारयोः साधारणत्वात् ; तथा हि-
अविशेषेणैव उपक्रमः - ' इमास्तिस्रो देवतास्त्रिवृत्रिवृदेकै का
भवति' इति, अविशेषेणैव च उपसंहारः - ' यदु रोहित मि-
वाभूदिति तेजसस्तद्रूपम्' इत्येवमादि:, ' यद्वविज्ञातमिवाभू-
दित्येतासामेव देवतानां समास:' इत्येवमन्तः ॥
तासां तिसृणां देवतानाम्, बहिस्त्रिवृत्कृतानां सतीनाम्,
अध्यात्ममपरं त्रिवृत्करणमुक्तम्' इमास्तिस्रो देवताः पुरुषं
प्राप्य त्रिवृत्रिवृदेकैका भवति' इति ; तदिदानीम् आचार्यो
यथाश्रुत्येवोपदर्शयति, आशङ्कितं कंचिद्दोषं परिहरि-
powment
ष्यन् -
मांसादि भौमं यथाशब्द-
मितरयोश्च ॥ २१ ॥
भूमेस्त्रिवृत्कृतायाः पुरुषेणोपभुज्यमानाया मांसादिकार्यं
यथाशब्दं निष्पद्यते ; तथा हि श्रुतिः -- ' अन्नमशितं त्रेधा