2026-05-06 05:21:44 by ambuda-bot
This page has not been fully proofread.
सू. २०.]
द्वितीयोऽध्यायः ।
५१९
'व्याकरवाणि' इत्युत्तमपुरुषप्रयोगेण परस्यैव ब्रह्मणो व्याक-
र्तृत्व महोपदिश्यते । ननु ' जीवेन' इति विशेषणात् जीवकृर्तृ-
कत्वं व्याकरणस्याध्यवसितम् नैतदेवम्; 'जीवेन' इत्येतत्
'अनुप्रविश्य' इत्यनेन संबध्यते, आनन्तर्यात् न ' व्याकर-
वाणि' इत्यनेन तेन हि संबन्धे ' व्याकरवाणि' इत्ययं
देवताविषय उत्तमपुरुष औपचारिकः कल्प्येत ; न च गिरि-
नदी समुद्रादिषु नानाविधेषु नामरूपेषु अनीश्वरस्य जीवस्य
व्याकरणसामर्थ्यमस्ति ; येष्वपि च अस्ति सामर्थ्यम्, तेष्व-
पि परमेश्वरात्तमेव तत्; न च जीवो नाम परमेश्वरादत्य-
न्तभिन्न:- चार इव राज्ञः, 'आत्मना ' इति विशेषणात्
उपाधिमात्रनिबन्धनत्वाच्च जीवभावस्य ; तेन तत्कृतमपि ना-
मरूपव्याकरणं परमेश्वरकृतमेव भवति परमेश्वर एव च
नामरूपयोयकर्तेति सर्वोपनिषत्सिद्धान्तः, 'आकाशो ह वै
नाम नामरूपयोर्निर्वहिता' इत्यादिश्रुतिभ्यः; तस्मात् परमे-
वरस्यैव त्रिवृत्कुर्वतः कर्म नामरूपव्याकरणम् । त्रिवृत्करण-
पूर्वकमेवेदम् इह नामरूपव्याकरणं विवक्ष्यते, प्रत्येकं नाम-
रूपव्याकरणस्य तेजोबन्नोत्पत्तिवचनेनैवोक्तत्वात् ; तच्च त्रिवृ-
त्करणमग्न्यादित्यचन्द्र विद्युत्सु श्रुतिर्दर्शयति- ' यदने रोहि-
तं रूपं तेजसस्तद्रूपं यच्छुक्कं तदपां यत्कृष्णं तदन्नस्य' इत्या-
:
'