2026-05-06 05:21:41 by ambuda-bot
This page has not been fully proofread.
५१८
सूत्रभाष्ये
[ पा. ४.
रूपव्याकरणम्, आहोस्वित्परमेश्वरकर्तृकमिति । तत्र प्राप्तं
तावत् जीवकर्तृकमेवेदं नामरूपव्याकरणमिति; कुतः ?
'अनेन जीवेनात्मना ' इति विशेषणात् - यथा लोके 'चा-
रेणाहं परसैन्यमनुप्रविश्य संकलयानि ' इत्येवं जातीय के प्र-
योगे, चारकर्तृकमेव सत् सैन्यसंकलनं हेतुकर्तृत्वात् राजा
आत्मन्यध्यारोपयति संकलयानीत्युत्तमपुरुषप्रयोगेण; एवं
जीवकर्तृकमेव सत् नामरूपव्याकरणं हेतुकर्तृत्वात् देवता
आत्मन्यध्यारोपयति व्याकरवाणीत्युत्तमपुरुषप्रयोगेण । अप
च डित्थडवित्थादिषु नामसु घटशरावादिषु च रूपेषु जीव-
स्यैव व्याकर्तृत्वं दृष्टम् । तस्माज्जीवकर्तृकमेवेदं नामरूप-
व्याकरणमित्येवं प्राप्ते--
-----
अभिधत्ते— संज्ञामूर्तिक्लप्तिस्त्विति । तु शब्देन पक्षं व्या-
वर्तयति । संज्ञामूर्तिक्लप्तिरिति नामरूपव्याक्रियेत्येतत्; त्रि-
वृत्कुर्वत इति परमेश्वरं लक्षयति, त्रिवृत्करणे तस्य निरपवाद-
कर्तृत्वनिर्देशात् ~~येयं संज्ञाक्लृप्तिः मूर्तिक्लप्तिश्च, अग्नि: आ-
दित्यः चन्द्रमाः विद्युदिति, तथा कुशकाशपलाशादिषु पशु-
मृगमनुष्यादिषु च प्रत्याकृति प्रतिव्यक्ति च अनेकप्रकारा,
सा खलु परमेश्वरस्यैव तेजोबन्नानां निर्मातुः कृतिर्भवितुमर्ह-
ति ; कुत: ? उपदेशात् ; तथा हि-'सेयं देवता '
इत्युपक्रम्य