Proofing

This page has not been fully proofread.

द्वितीयोऽध्यायः ।
 
५१७
 
सू. २०.]
न्द्रियाण्यनुक्रम्य, 'तानि मृत्युः श्रमो भूत्वोपयेमे तस्माच्छ्रा-
म्यत्येव वाक्' इति च श्रमरूपेण मृत्युना ग्रस्तत्वं वागादी-
नामभिधाय, 'अथेममेव नाप्नोद्योऽयं मध्यमः प्राणः इति
पृथक् प्राणं मृत्युना अनभिभूतं तमनुक्रामति; 'अयं वै नः
श्रेष्ठ:' इति च श्रेष्ठतामस्यावधारयति, तस्मात् तदविरोधेन,
वागादिषु परिस्पन्दलाभस्य प्राणायत्तत्वम् - तद्रूपभवनं वागा-
दीनाम् - इति मन्तव्यम्, न तु तादात्म्यम् । अत एव च प्राण-
शब्दस्येन्द्रियेषु लाक्षणिकत्वसिद्धिः ; तथा च श्रुतिः -- 'त
एतस्यैव सर्वे रूपमभवन् । तस्मादेत एतेनाख्यायन्ते प्राणा: '
इति मुख्यप्राणविषयस्यैव प्राणशब्दस्येन्द्रियेषु लाक्षणिक
वृत्तिं दर्शयति । तस्मात्तत्त्वान्तराणि प्राणात् वागादीनि
इन्द्रियाणीति ॥
 
संज्ञामूर्तिक्लप्तिस्तु त्रिवृत्कुर्वत
उपदेशात् ॥ २० ॥
 
सत्प्रक्रियायां तेजोबन्नानां सृष्टिमभिधायोपदिश्यते-
'सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेना-
९. संज्ञामूर्ति - त्मनानुप्रविश्य नामरूपे व्याकरवाणीति ।
क्लृप्त्यधि- तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति '
करणम् । तत्र संशयः किं जीवकर्तृकमिदं नाम -
 
,