2026-05-06 05:21:41 by ambuda-bot
This page has not been fully proofread.
५१६
सूत्रभाष्ये ।
भेदश्रुतेः ॥ १८ ॥
[पा. ४.
भेदेन वागादिभ्यः प्राणः सर्वत्र श्रूयते- 'ते ह वाचमू-
चु:' इत्युपक्रम्य, वागादीनसुरपाप्मविध्वस्तानुपन्यस्य, उप-
संहृत्य वागादिप्रकरणम् ' अथ हेममासन्यं प्राणमूचुः '
इत्यसुरविध्वंसिनो मुख्यस्य प्राणस्य पृथगुपक्रमणात् । तथा
'मनो वाचं प्राणं तान्यात्मनेऽकुरुत' इत्येवमाद्या अपि भेद-
श्रुतय उदाहर्तव्याः । तस्मादपि तत्त्वान्तरभूता मुख्या-
दितरे ॥
------
कुतश्च तत्त्वान्तरभूता: ?-
वैलक्षण्याच्च ॥ १९ ॥
सुतेषु वा-
वैलक्षण्यं च भवति, मुख्यस्य इतरेषां च-
गादिषु मुख्य एको जागर्ति; स एव च एको मृत्युना अना-
तः, आप्तास्त्वितरे; तस्यैव च स्थित्युत्क्रान्तिभ्यां देहधारणप-
तनहेतुत्वम्, न इन्द्रियाणाम् ; विषयालोचनहेतुत्वं च इन्द्रि -
याणाम्, न प्राणस्य- इत्येवंजातीयको भूयाँलक्षणभेदः प्रा-
णेन्द्रियाणाम्; तस्मादप्येषां तत्त्वान्तरभावसिद्धिः । यदुक्तम्
'त एतस्यैव सर्वे रूपमभवन्'
-
-
इति श्रुतेः प्राण एवे-
न्द्रियाणीति, तदयुक्तम्, तत्रापि पौर्वापर्यालोचनाद्भेदप्रतीते: ;
तथा हि - ' वदिष्याम्येवाहमिति वाग्दधे' इति वागादीनी-