Proofing

This page has not been fully proofread.

सू. १७.]
 
-
 
द्वितीयोऽध्यायः ।
 
५१५
 
सर्वे रूपमभवन्' इति ; प्राणैकशब्दत्वाच्च एकत्वाध्यवसाय: ;
इतरथा न्याय्यमनेकार्थत्वं प्राणशब्दस्य प्रसज्येत, एकत्र
ar मुख्यस्येतरत्र लाक्षणिकत्वमापद्येत । तस्माद्यथैकस्यैव
प्राणस्य प्राणाद्याः पञ्च वृत्तयः, एवं वागाद्या अप्येकादशेति ;
एवं प्राप्ते, ब्रूमः — तत्त्वान्तराण्येव प्राणाद्वागादीनीति ;
कुतः ? व्यपदेशभेदात् ; कोऽयं व्यपदेशभेद: ? ते प्रकृता:
प्राणाः, श्रेष्ठं वर्जयित्वा अवशिष्टा एकादशेन्द्रियाणीत्युच्य -
न्ते, श्रुतावेवं व्यपदेशभेददर्शनात् – 'एतस्माज्जायते प्राणो
मनः सर्वेन्द्रियाणि च इति ह्येवजातीयकेषु प्रदेशेषु पृथ-
कू प्राणो व्यपदिश्यते, पृथक्च इन्द्रियाणि । ननु मनसो -
ऽप्येवं सति वर्जनम् इन्द्रियत्वेन, प्राणवत् स्यात् - 'मनः
सर्वेन्द्रियाणि च' इति पृथग्व्यपदेशदर्शनात् सत्यमेतत्-
स्मृतौ तु एकादशेन्द्रियाणीति मनोऽपि इन्द्रियत्वेन श्रोत्रादि-
वत् संगृह्यते ; प्राणस्य तु इन्द्रियत्वं न श्रुतौ स्मृतौ वा प्रसि-
द्धमस्ति । व्यपदेशभेदश्चायं तवभेदपक्षे उपपद्यते ; तत्त्व-
कत्वे तु, स एवैकः सन् प्राण इन्द्रियव्यपदेशं लभते न
इति विप्रतिषिद्धम् । तस्मात्तत्त्वान्तरभूता मुख्या-
 
लभते च-
 
दितरे ॥
 
कुतश्च तत्त्वान्तरभूता: ?-
 
'