2026-05-06 05:21:40 by ambuda-bot
This page has not been fully proofread.
५१४
सूत्रभाष्ये
[पा. ४.
तस्य च शारीरस्यास्मिन् शरीरे भोक्तृत्वेन नित्यत्वम्-
पुण्यपापोपलेपसंभवात् सुखदुःखोपभोगसंभवाच्च, न देवता-
नाम् ; ता हि परस्मिन्नैश्वर्ये पदेऽवतिष्ठमाना न हीनेऽस्मिन्
शरीरे भोक्तृत्वं प्रतिलब्धुमर्हन्ति; श्रुतिश्च भवति - 'पुण्य-
मेवामुं गच्छति न ह वै देवान्पापं गच्छति' इति । शारी-
रेणैव च नित्यः प्राणानां संबन्ध:, उत्क्रान्त्यादिषु तदनुवृत्ति-
दर्शनात् —'तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं
सर्वे प्राणा अनूत्क्रामन्ति' इत्यादिश्रुतिभ्यः । तस्मात् सती-
ध्वपि करणानां नियन्त्रीषु देवतासु न शारीरस्य भोक्तृत्व-
मपगच्छति ; करणपक्षस्यैव हि देवता, न भोक्तृपक्षस्येति ॥
त इन्द्रियाणि तद्व्यपदेशादन्यत्र
श्रेष्ठात् ॥ १७ ॥
मुख्यश्चैकः इतरे चैकादश प्राणा अनुक्रान्ता:; तत्रेदम-
परं संदिह्यते— किं मुख्यस्यैव प्राणस्य वृत्तिभेदा इतरे
प्राणाः, आहोस्वित् तत्त्वान्तराणीति । किं
८. इन्द्रि -
याधि-
तावत्प्राप्तम् — मुख्यस्यैवेतरे वृत्तिभेदा इति ;
करणम् । कुत: ? श्रुतेः ; तथा हि श्रुति: मुख्य-
मितरांश्च प्राणान्संनिधाप्य, मुख्यात्मतामितरेषां ख्याप-
यति - ' हन्तास्यैव सर्वे रूपमसामेति त एतस्यैव
---