Proofing

This page has not been fully proofread.

सू. १६.]
 
द्वितीयोऽध्यायः : 1
 
५१३
 
ध्यात्ममिति प्राहुर्ब्राह्मणास्तत्त्वदर्शिनः । वक्तव्यमधिभूतं तु
वह्निस्तत्राधिदैवतम्' इत्यादिना वागादीनामग्न्यादिदेवताधि-
ष्ठितत्वं सप्रपञ्चं प्रदर्शितम् । यदुक्तम् -- स्वकार्यशक्तियोगा-
त्स्वमहिम्नैव प्राणाः प्रवर्तेरन्निति, तदयुक्तम, शक्तानामपि
शकटादीनामनडुहाद्यधिष्ठितानां प्रवृत्तिदर्शनात्; उभयथोप-
पत्तौ च आगमात् वागादीनां देवताधिष्ठितत्वमेव निश्चीयते ॥
यदयुक्तम्- देवतानामेवाधिष्ठात्रीणां भोक्तृत्वप्रसङ्गः, न
शारीरस्येति तत्परिहियते--
 
प्राणवता शब्दात् ॥ १५ ॥
 
6
 
सतीष्वपि प्राणानामधिष्ठात्रीषु देवतासु प्राणवता कार्य-
करणसंघातस्वामिना शारीरेणैव एषां प्राणानां संबन्धः श्रुते-
रवगम्यते ; तथा हि श्रुतिः -- अथ यत्रैतदाकाशमनुविषण्णं
चक्षुः स चाक्षुषः पुरुषो दर्शनाय चक्षुरथ यो वेदेदं जिघ्रा -
णीति स आत्मा गन्धाय घ्राणम्' इत्येवंजातीयका शारीरे-
जैव प्राणानां संबन्धं श्रावयति । अपि च अनेकत्वात्प्रतिक-
रणमधिष्ठात्रीणां देवतानां न भोक्तृत्वम् अस्मिन् शरीरेऽव-
कल्पते; एको ह्ययमस्मिन् शरीरे शारीरो भोक्ता प्रतिसंधाना-
दिसंभवादवगम्यते ॥
 
तस्य च नित्यत्वात् ॥ १६ ॥