Proofing

This page has not been fully proofread.

५१२
 
सूत्रभाष्ये
 
[पा. ४.
 
गम्यमानायां तासामेवाधिष्ठात्रीणां देवतानां भोक्तृत्वप्रस-
ङ्गात् शारीरस्य भोक्तृत्वं प्रलीयेत; अतः स्वमहिम्नैव एषां
प्रवृत्तिरिति एवं प्राप्ते, इदमुच्यते- ज्योतिराद्यधि-
ष्ठानं तु इति । तु शब्देन पूर्वपक्षो व्यावर्त्यते । ज्योतिरादि-
भिरग्न्याद्यभिमानिनीभिर्देवताभिरधिष्ठितं वागादिकरणजातं
स्वकार्येषु प्रवर्तत इति प्रतिजानीते । हेतुं च व्याचष्ठे-
तदामननादिति ; तथा हि आमनन्ति - ' अग्निर्वाग्भूत्वा मुखं
प्राविशत्' इत्यादि; अग्नेश्चायं वाग्भावो मुखप्रवेशश्च
देवतात्मना अधिष्ठातृत्वमङ्गीकृत्य उच्यते ; न हि देव-
तासंबन्धं प्रत्याख्याय अग्नेः वाचि मुखे वा कश्चि-
द्विशेषसंबन्धो दृश्यते ; तथा 'वायुः प्राणो भूत्वा नासिके
प्राविशत्' इत्येवमाद्यपि योजयितव्यम् । तथा अन्यत्रापि
' वागेव ब्रह्मणचतुर्थः पादः सोऽग्निना ज्योतिषा भाति च
तपति च' इत्येवमादिना वागादीनाम् अग्न्यादिज्योतिष्ट्वादि-
वचनेन एतमेवार्थी द्रढयति । 6 स वै वाचमेव प्रथमामत्यव-
हत्सा यदा मृत्युमत्यमुच्यत सोऽग्निरभवत्' इति च एवमादि-
ना वागादीनामग्न्यादिभावापत्तिवचनेन एतमेवार्थं द्योतय-
ति । सर्वत्र च अध्यात्माधिदैवतविभागेन वागाद्यग्न्याद्यनु-
क्रमणम् अनयैव प्रत्यासत्त्या भवति । स्मृतावपि - 'वाग-