Proofing

This page has not been fully proofread.

सू. १४ . ]
 
द्वितीयोऽध्यायः ।
 
५११
 
अणुश्चायं मुख्यः प्राणः प्रत्येतव्यः, इतरप्राणवत् । अणु-
त्वं च इहापि सौक्ष्म्यपरिच्छेदौ, न परमाणुतुल्यत्वम्, प-
६. श्रेष्ठाणुत्वा चभिर्वृत्तिभिः कृत्स्नशरीरव्यापित्वात् ;-
उत्क्रान्तौ पार्श्वस्थेन अनुप -
 
"
 
"
 
धिकरणम् । सूक्ष्मः प्राणः,
लभ्यमानत्वात् परिच्छिन्नश्च उत्क्रान्तिगत्यागति श्रुतिभ्यः ।
ननु विभुत्वमपि प्राणस्य समाम्नायते - सम: षिणा -
मो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः समोऽनेन
सर्वेण' इत्येवमादिषु प्रदेशेषु तदुच्यते-- आधिदैविकेन
समष्टिव्यष्टिरूपेण हैरण्यगर्भेण प्राणात्मनैव एतद्विभुत्वमा-
नायते, न आध्यात्मिकेन ; अपि च 'सम: षिणा' इत्या-
दिना साम्यवचनेन प्रतिप्राणिवर्तिनः प्राणस्य परिच्छेद
एव प्रदर्श्यते; तस्माददोषः ॥
 
6
 
ज्योतिराद्यधिष्ठानं तु तदा-
 
मननात् ॥ १४ ॥
 
ते पुनः प्रकृताः प्राणा: किं स्वमहिम्नैव स्वस्मै स्वस्मै
कार्याय प्रभवन्ति, आहोस्विद्देवताधिष्ठिता: प्रभवन्ति इति
 
-
 
यथास्वं
७. ज्योतिराद्य- विचार्यते । तत्र प्राप्तं तावत्-
धिकरणम् । कार्यशक्तियोगात् स्वमहिम्नैवं प्राणाः प्रव-
र्तेरन्निति ;
अपि च देवताधिष्ठितानां प्राणानां प्रवृत्तावभ्यु-