2026-05-06 05:21:37 by ambuda-bot
This page has not been fully proofread.
५१०
सूत्रभाष्ये
6
-
[ पा. ४.
इतश्चास्ति मुख्यस्य प्राणस्य वैशेषिकं कार्यम्, यत्कारणं
पञ्चवृत्तिरयं व्यपदिश्यते श्रुतिषु प्राणोऽपानो व्यान उ-
दानः समान:' इति ; वृत्तिभेदस्वायं कार्यभेदापेक्षः - प्राणः
प्रावृत्तिः उच्छ्रासादिकर्मा, अपानः अवाग्वृत्तिर्निश्वासादि-
कर्मा, व्यानः तयोः संधौ वर्तमानो वीर्यवत्कर्महेतु:, उदान:
ऊर्ध्ववृत्तिरुत्क्रान्त्यादिहेतु:, समानः समं सर्वेष्वङ्गेषु योऽन्नर-
सान्नयति इत्येवं पञ्चवृत्तिः प्राणः, मनोवत् - यथा मनसः
पञ्च वृत्तयः, एवं प्राणस्यापीत्यर्थः । श्रोत्रादिनिमित्ता: श-
ब्दादिविषया मनसः पञ्च वृत्तयः प्रसिद्धा: ; न तु 'काम:
संकल्प: ... ' इत्याद्या: परिपठिता गृह्येरन् पञ्चसंख्यातिरे-
कात् । नन्वत्रापि श्रोत्रादिनिरपेक्षा भूतभविष्यदादिविषया
अपरा मनसो वृत्तिरस्तीति समानः पञ्चसंख्यातिरेकः ;
एवं तर्हि 'परमतमप्रतिषिद्धमनुमतं भवति' इति न्यायात्
इहापि योगशास्त्रप्रसिद्धा मनसः पञ्च वृत्तयः परिगृह्यन्ते ----
' प्रमाणविपर्ययविकल्पनिद्रास्मृतय:' नाम; बहुवृत्तित्वमात्रेण
वा मन: प्राणस्य निदर्शनमिति द्रष्टव्यम् । जीवोपकरणत्व-
मपि प्राणस्य पञ्चवृत्तित्वात् मनोवत् - इति वा योजयि-
तव्यम् ॥
"
अणुश्च ॥ १३ ॥
."