Proofing

This page has not been fully proofread.

सू. १२. ]
 
द्वितीयोऽध्यायः ।
 
५०९
 
म्यते । न च अस्य एतावता कार्याभाव एव; कस्मात् ? तथा
हि श्रुतिः प्राणान्तरेष्वसंभाव्यमानं मुख्यप्राणस्य वैशेषिकं
कार्य दर्शयति प्राणसंवादादिषु - ' अथ ह प्राणा अहं श्रेयसि
व्यूदिरे ' इत्युपक्रम्य, ' यस्मिन्व उत्क्रान्ते शरीरं पापिष्ठतर-
मिव दृश्येत स वः श्रेष्ठ: ' इति च उपन्यस्य, प्रत्येकं वागा-
द्युत्क्रमणेन तद्वृत्तिमात्रहीनं यथापूर्वं जीवनं दर्शयित्वा,
प्राणोचिक्रमिषायां वागादिशैथिल्यापत्तिं शरीरपातप्रसङ्ग
च दर्शयन्ती श्रुतिः प्राणनिमित्तां शरीरेन्द्रियस्थिति दर्श-
यति ;
' तान्वरिष्ठः प्राण उवाच मा मोहमापद्यथाह-
मेवैतत्पञ्चधात्मानं प्रविभज्यैतद्वाणमवष्टभ्य विधारयामि'
इति च एतमेवार्थे श्रुतिराह; ' प्राणेन रक्षन्नवरं कुलायम् '
इति च सुतेषु चक्षुरादिषु प्राणनिमित्तां शरीररक्षां दर्शयति ;
यस्मात्कस्माच्चाङ्गात्प्राण उक्रामति तदेव तच्छुष्यति', इति
तेन यदश्नाति यत्पिबति तेनेतरान्प्राणानवति' इति च प्राण-
निमित्तां शरीरेन्द्रियपुष्टिं दर्शयति ; 'कस्मिन्न्वहमुकान्त उ-
कान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामि' इति,
' स प्राणमसृजत . ' इति च प्राणनिमित्ते जीवस्योत्क्रान्ति-
प्रतिष्ठे दर्शयति ॥
 
6
 
6
 
';
 
पञ्चवृत्तिर्मनोवव्यपदिश्यते ॥ १२ ॥