Proofing

This page has not been fully proofread.

५०८
 
सूत्रभाष्ये
 
"
 
[पा. ४.
 
तु-शब्द: प्राणस्य जीववत् स्वातन्त्र्यं व्यावर्तयति । यथा
चक्षुरादीनि राजप्रकृतिवत् जीवस्य कर्तृत्वं भोक्तृत्वं च
प्रति उपकरणानि, न स्वतन्त्राणि ; तथा मुख्योऽपि प्राण:,
राजमन्त्रिवत्, जीवस्य सर्वार्थकरत्वेन उपकरणभूतः, न
स्वतन्त्रः । कुतः ? तत्सह शिष्टयादिभ्यः ; तैश्चक्षुरादिभिः
सहैव प्राण: शिष्यते प्राणसंवादादिषु ; समानधर्मणां च सह
शासनं युक्तं बृहद्रथंतरादिवत्; आदिशब्देन संहतत्वाचेतन-
त्वादीन् प्राणस्य स्वातन्त्र्य निराकरणहेतून् दर्शयति ॥
 
स्यादेतत्- यदि चक्षुरादिवत् प्राणस्य जीवं प्रति कर-
भावोऽभ्युपगम्येत, विषयान्तरं रूपादिवत् प्रसज्येत -
रूपालोचनादिभिर्वृत्तिभिर्यथास्वं चक्षुरादीनां जीवं प्रति
करणभावो भवति । अपि च एकादशैव कार्यजातानि रूपा -
लोचनादीनि परिगणितानि, यदर्थमेकादश प्राणाः संगृहीता: ;
न तु द्वादशमपरं कार्यजातमवगम्यते, यदर्थमयं द्वादश:
प्राणः प्रतिज्ञायत इति; अत उत्तरं पठति---
 
अकरणत्वाच्च न दोषस्तथाहि
दर्शयति ॥ ११ ॥
 
न तावद्विषयान्तरप्रसङ्गो दोष:, अकरणत्वात्प्राणस्य ; न
हि चक्षुरादिवत् प्राणस्य विषयपरिच्छेदेन करणत्वमभ्युपग-