Proofing

This page has not been fully proofread.

सू. १०.]
 
द्वितीयोऽध्यायः ।
 
५०७
 
,
 
कवृत्तिभिरवान्तरव्यापारैः पञ्जरचालनानुरूपैरेवोपेताः प-
क्षिणः संभूय एकं पञ्जरं चालयेयुरिति, तथा दृष्टत्वात् ;
इह तु — श्रवणाद्यवान्तरव्यापारोपेताः प्राणा न संभूय प्रा-
ज्युरिति युक्तम्, प्रमाणाभावात्, अत्यन्तविजातीयत्वाच्च
श्रवणादिभ्यः प्राणनस्य । तथा प्राणस्य श्रेष्ठत्वाद्युद्घोषणम् :
गुणभावोपगमच तं प्रति वागादीनाम् न करणवृत्तिमात्रे
'प्राणेऽवकल्पते । तस्मादन्यो वायुक्रियाभ्यां प्राणः । कथं
तर्हीयं श्रुतिः - ' यः प्राणः स वायु:' इति ? उच्यते — वायु-
रेवायम् अध्यात्ममापन्नः पञ्चव्यूहो विशेषात्मनावतिष्ठ-
मानः प्राणो नाम भण्यते, न तत्त्वान्तरम्, नापि वायु-
मात्रम् ; अचोभे अपि भेदाभेदश्रुती न विरुध्येते ॥
 
"
 
स्यादेतत् — प्राणोऽपि तर्हि जीववत् अस्मिन् शरीरे
स्वातन्त्र्यं प्राप्नोति, श्रेष्ठत्वात्, गुणभावोपगमाच्च तं प्रति
वागादीनामिन्द्रियाणाम् ; तथा हि अनेकविधा विभूति:
प्राणस्य श्राव्यते - सुप्तेषु वागादिषु प्राण एवैको जागर्ति,
प्राण एवैको मृत्युना अनाप्तः, प्राणः संवर्गो वागादीन् संवृङ्के,
प्राण इतरान्प्राणान्रक्षति मातेव पुत्रान् - इति ; तस्मात्प्राण-
स्यापि जीववत् स्वातन्त्र्यप्रसङ्गः ; तं परिहरति-
 
-
 
चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः ॥ १० ॥