Proofing

This page has not been fully proofread.

५०६
 
सूत्रभाष्ये
 
इति प्राप्तम् ; एवं हि तन्त्रान्तरीया आचक्षते-
करणवृत्तिः प्राणाद्या वायवः पश्चेति ॥
 
[पा. ४.
 
सामान्या
 
अत्रोच्यते- न वायुः प्राणः, नापि करणव्यापार: ;
कुत: ? पृथगुपदेशात्; वायोस्तावत् प्राणस्य पृथगुपदेशो
भवति— 'प्राण एव ब्रह्मणचतुर्थः पादः स वायुना ज्यो-
तिषा भाति च तपति च' इति ; न हि वायुरेव सन्
वायो: पृथगुपदिश्येत । तथा करणवृत्तेरपि पृथगुपदेशो
भवति, वागादीनि करणान्यनुक्रम्य तत्र तत्र पृथक्प्रा-
णस्यानुक्रमणात्, वृत्तिवृत्तिमतोरभेदात् ; न हि करणव्या-
पार एव सन् करणेभ्यः पृथगुपदिश्येत । तथा
' एतस्मा-
ज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुः' इत्येव -
मादयोऽपि वायोः करणेभ्यश्च प्राणस्य पृथगुपदेशा अनु-
सर्तव्या: : । न च समस्तानां करणानामेका वृत्तिः संभवति,
प्रत्येकमेकैकवृत्तित्वात् समुदायस्य च अकारकत्वात् ; ननु
पञ्जरचालनन्यायेन एतद्भविष्यति - यथा एकपञ्जरवर्तिन
एकादशपक्षिणः प्रत्येकं प्रतिनियतव्यापाराः सन्तः संभूय
एकं पञ्जरं चालयन्ति, एवमेकशरीरवर्तिन एकादशप्राणाः
प्रत्येकं प्रतिनियतवृत्तयः सन्तः संभूय एकां प्राणाख्यां
वृत्तिं प्रतिलप्स्यन्त इति; नेत्युच्यते युक्तं तत्र - प्रत्ये-
 
---