Proofing

This page has not been fully proofread.

सू. ९.]
 
द्वितीयोऽध्यायः ।
 
५०५
 
प्राणकर्मोपादानात् प्रागुत्पत्तेः सन्तमिव प्राणं सूचयति;
तस्मादजः प्राण इति जायते कस्यचिन्मति:; तामतिदेशेना-
पनुदति । आनीच्छब्दोऽपि न प्रागुत्पत्तेः प्राणसद्भावं सूच-
यति, 'अवातम्' इति विशेषणात् ' अप्राणो ह्यमनाः शु-
भ्र: ' इति च मूलप्रकृतेः प्राणादिसमस्तविशेषरहितत्वस्य द-
शितत्वात् ; तस्मात्कारणसद्भावप्रदर्शनार्थ एवायम् आनीच्छ-
ब्द इति । ' श्रेष्ठ: ' इति च मुख्यं प्राणमभिदधाति, 'प्राणो
वाव ज्येष्ठश्च श्रेष्ठश्च' इति श्रुतिनिर्देशात्; ज्येष्ठश्च प्राण:,
शुक्रनिषेककालादारभ्य तस्य वृत्तिलाभात् न चेत्तस्य तदानी
वृत्तिलाभ: स्यात्, योनौ निषिक्तं शुकं पूयेत, न संभवेद्वा ;
श्रोत्रादीनां तु कर्णशष्कुल्यादिस्थानविभागनिष्पत्तौ वृत्तिला-
भान्न ज्येष्ठत्वम् । श्रेष्ठश्च प्राणः, गुणाधिक्यात्- 'न श-
क्ष्यामस्त्वदृते जीवितुम्' इति श्रुतेः ॥
 
न वायुक्रिये पृथगुपदेशात् ॥ ९ ॥
 
स पुनर्मुख्यः प्राणः किंस्वरूप इति इदानीं जिज्ञास्यते ।
तत्र प्राप्तं तावत् श्रुतेः वायुः प्राण इति; एवं हि श्रूयते -
५. वायुक्रिया - " यः प्राणः स वायुः स एष वायुः पश्च-
धिकरणम् । विधः प्राणोऽपानो व्यान उदानः समानः '
इति । अथवा तन्त्रान्तरीयाभिप्रायात् समस्तकरणवृत्तिः प्राण
 
S. W. II. 15