2026-05-06 05:21:33 by ambuda-bot
This page has not been fully proofread.
५०४
सूत्रभाष्ये
[पा. ४.
प्राणा:, स्थूलाश्चेत्स्यु:- मरणकाले शरीरान्निर्गच्छन्तः, बिला-
दहिरिव, उपलभ्येरन् म्रियमाणस्य पार्श्वस्थैः परिच्छिन्ना-
चैते प्राणाः, सर्वगताश्चेत्स्युः - उत्क्रान्तिगत्यागतिश्रुतिव्या-
कोप: : स्यात्, तद्गुणसारत्वं च जीवस्य न सिध्येत् ।
सर्वगतानामपि वृत्तिलाभ: शरीरदेशे स्यादिति चेत्, न,
वृत्तिमात्रस्य करणत्वोपपत्तेः ; यदेव हि उपलब्धिसाधन-
म् - वृत्ति: अन्यद्वा -- तस्यैव नः करणत्वम्, संज्ञामात्रे वि-
वाद: इति करणानां व्यापित्वकल्पना निरर्थिका । तस्मा-
त्सूक्ष्मा: परिच्छिन्नाश्च प्राणा इत्यध्यवस्यामः ॥
श्रेष्ठश्च ॥ ८ ॥
मुख्य प्राण इतर प्राणवद्ब्रह्मविकार:- इत्यतिदिशति ।
तच्च अविशेषेणैव सर्वप्राणानां ब्रह्मविकारत्वमाख्यातम् - " एत
४. प्राणष्टया - स्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च
,
,
धिकरणम् । इति सेन्द्रियमनोव्यतिरेकेण प्राणस्योत्प-
त्तिश्रवणात् ' स प्राणमसृजत' इत्यादिश्रवणेभ्यश्च । किमर्थः
पुनरतिदेश: ? अधिकाशङ्कावारणार्थ:- नासदासीये हि
ब्रह्मप्रधाने सूक्ते मन्त्रवर्णो भवति - 'न मृत्युरासीदमृतं न
तर्हि न रात्र्या अह्न आसीत्प्रकेतः । आनीदवातं स्वधया
तदेकं तस्माद्धान्यन्नपरः किंचनास' इति ; ' आनीत्' इति