2026-05-06 05:21:33 by ambuda-bot
This page has not been fully proofread.
सू. ७.]
द्वितीयोऽध्यायः ।
५०३
बयाण्यनुक्रामति' हस्तौ चादातव्यं चोपस्थश्चानन्दयित-
व्यं च पायुश्च विसर्जयितव्यं च पादौ च गन्तव्यं च '
इति ; तथा 'दशेमे पुरुषे प्राणा आत्मैकादशस्ते यदास्माच्छ-
रीरान्मर्त्यदुत्क्रामन्त्यथ रोदयन्ति' इत्येकादशानां प्राणाना-
मुत्क्रान्ति दर्शयति । सर्वशब्दोऽपि च प्राणशब्देन संबध्यमा-
नोऽशेषान्प्राणानभिदधानो न प्रकरणवशेन सप्तस्वेवावस्थाप-
यितुं शक्यते, प्रकरणाच्छब्दस्य बलीयस्त्वात्; सर्वे ब्राह्म-
'णा भोजयितव्याः इत्यत्रापि सर्वेषामेव अवनिवर्तिनां
ब्राह्मणानां ग्रहणं न्याय्यम्, सर्वशब्दसामर्थ्यात् ; सर्वभोज-
नासंभवात्तु तत्र निमन्त्रितमात्रविषया सर्वशब्दस्य वृत्तिरा-
श्रिता; इह तु न किंचित्सर्वशब्दार्थसंकोचने कारणमस्ति :
तस्मात्सर्वशब्देन अव अशेषाणां प्राणानां परिग्रहः । प्रदर्शनार्थ
च सप्तानामनुक्रमणमित्यनवद्यम् । तस्मादेकादशैव प्राणा:-
शब्दतः कार्यतचेति सिद्धम् ॥
अणवश्च ॥ ७ ॥
अधुना प्राणानामेव स्वभावान्तरमभ्युच्चिनोति । अणवश्चैते
प्रकृताः प्राणाः प्रतिपत्तव्या:; अणुत्वं चैषां सौक्ष्म्यपरिच्छे-
३. प्राणाणुत्वा-
दौ, न परमाणुतुल्यत्वम्, कृत्स्रदेहव्यापि -
सूक्ष्मा एते
धिकरणम् । कार्यानुपपत्तिप्रसङ्गात्