Proofing

This page has not been fully proofread.

५०२
 
सूत्रभाष्ये
 
-----
 
[ पा. ४.
 
पर्यन्ता विशेषिता इह प्रकृता: ' स यत्रैव चाक्षुषः पुरुषः
परापर्यावर्ततेऽथारूपज्ञो भवति' 'एकीभवति न पश्य -
तीत्याहु:' इत्येवमादिना अनुक्रमणेन ; प्रकृतगामी च सर्वश-
दो भवति यथा सर्वे ब्राह्मणा भोजयितव्या इति ये नि-
मन्त्रिताः प्रकृता ब्राह्मणास्त एव सर्वशब्देनोच्यन्ते, नान्ये-
एवमिहापि ये प्रकृताः सप्त प्राणास्त एव सर्वशब्देनोच्यन्ते,
नान्य इति । नन्वत्र विज्ञानमष्टममनुक्रान्तम् ; कथं सप्ताना-
मेवानुक्रमणम् ? नैष दोषः । मनोविज्ञानयोस्तत्त्वाभेदाद्वृत्ति-
भेदेऽपि सप्तत्वोपपत्तेः । तस्मात्सप्तैव प्राणा इति — एवं प्रा-
ते, ब्रूमः - हस्तादयस्त्वपरे सप्तभ्योऽतिरिक्ताः प्राणाः
प्रतीयन्ते 'हस्तो वै ग्रहः' इत्यादिश्रुतिषु ; ग्रहत्वं च बन्ध-
नभावः, गृह्यते बध्यते क्षेत्रज्ञः अनेन ग्रहसंज्ञकेन बन्धनेने-
ति; स च क्षेत्रज्ञो नैकस्मिन्नेव शरीरे बध्यते, शरीरान्तरे-
वपि तुल्यत्वाद्बन्धनस्य; तस्माच्छरीरान्तरसंचारि इदं ग्रह-
संज्ञकं बन्धनम् इत्यर्थादुक्तं भवति । तथा च स्मृतिः - 'पु-
र्यष्टकेन लिङ्गेन प्राणाद्येन स युज्यते । तेन बद्धस्य वै बन्धो
मोक्षो मुक्तस्य तेन च' इति प्राड्योक्षात् ग्रहसंज्ञकेन बन्ध-
नेन अवियोगं दर्शयति ; आथर्वणे च विषयेन्द्रियानुक्रमणे
'चक्षुश्च द्रष्टव्यं च' इत्यत्र तुल्यवद्धस्तादीनीन्द्रियाणि सवि-