Proofing

This page has not been fully proofread.

सू. ६.]
 
द्वितीयोऽध्यायः ।
 
५०१
 
अपि च सप्तैव शीर्षण्यान्प्राणानभिमन्यमानस्य चत्वार एव
प्राणा अभिमता: स्यु: ; स्थानभेदाद्धयेते चत्वारः सन्तः
 
6
 
सप्त गण्यन्ते -- ' द्वे श्रोत्रे द्वे चक्षुषी द्वे नासिके एका
वाक्' इति ; न च तावतामेव वृत्तिभेदा इतरे प्राणा इति
शक्यते वक्तुम हस्तादिवृत्तीनामत्यन्तविजातीयत्वात् ।
तथा 'नव वै पुरुषे प्राणा नाभिर्दशमी' इत्यत्रापि देहच्छि -
भेदाभिप्रायेणैव दश प्राणा उच्यन्ते, न प्राणतत्त्वभेदाभि-
प्रायेण, 'नाभिर्दशमी' इति वचनात् ; न हि नाभिर्नाम
कश्चित्प्राणः प्रसिद्धोऽस्ति; मुख्यस्य तु प्राणस्य भवति नाभि-
रप्येकं विशेषायतनमिति -- अतो 'नाभिर्दशमी' इत्युच्यते ।
क्वचिदुपासनार्थं कतिचित्प्राणा गण्यन्ते, क्वचित्प्रदर्शनार्थम् ;
तदेवं विचित्रे प्राणेयत्तानाने सति, व किं परम् आना-
नमिति विवेक्तव्यम् ; कार्यजातवशात्वेकादशत्वानानं प्राण-
विषयं प्रमाणमिति स्थितम् ॥
 
इयमपरा सूत्रद्वययोजना - सप्तैव प्राणाः स्युः, यतः
सप्तानामेव गतिः श्रयते- 'तमुत्क्रामन्तं प्राणोऽनूत्क्रामति
प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति' इत्यत्र । ननु
सर्वशब्दोऽत्र पठ्यते, तत्कथं सप्तानामेव गतिः प्रतिज्ञायत
इति विशेषितत्वादित्याह - सप्तैव हि प्राणाश्चक्षुरादयस्त्व-