2026-05-06 05:21:31 by ambuda-bot
This page has not been fully proofread.
५००
सूत्रभाष्ये
[पा. ४.
हस्तादयस्त्वपरे सप्तभ्योऽतिरिक्ताः प्राणाः श्रूयन्ते —
'हस्तो वै ग्रहः स कर्मणातिग्रहेण गृहीतो हस्ताभ्यां हि
कर्म करोति' इत्येवमाद्यासु श्रुतिषु ; स्थिते च सप्तत्वातिरेके
सप्तत्वमन्तर्भावाच्छक्यते संभावयितुम् ; हीनाधिक संख्यावि-
प्रतिपत्तौ हि अधिक संख्या संग्राह्या भवति ; तस्यां हीना
अन्तर्भवति, न तु हीनायामधिका; अतश्च नैवं मन्तव्यम् -
स्तोककल्पनानुरोधात्सप्तैव प्राणाः स्युरिति । उत्तरसंख्यानु-
रोधात्तु एकादशैव ते प्राणाः स्युः ; तथा च उदाहृता श्रुति:-
'दशेमे पुरुषे प्राणा आत्मैकादश:' इति ; आत्मशब्देन च
अत्र अन्तःकरणं परिगृह्यते, करणाधिकारात् । नन्वेकादश-
त्वादप्यधिके द्वादशत्रयोदशत्वे उदाहृते - सत्यमुदाहृते; न
त्वेकादशभ्यः कार्यजातेभ्योऽधिकं कार्यजातमस्ति, यदर्थम-
धिकं करणं कल्प्येत; शब्दस्पर्शरूपरसगन्धविषयाः पश्च बु-
द्विभेदा:, तदर्थानि पञ्च बुद्धीन्द्रियाणि ; वचनादानविहरणो-
त्सर्गानन्दाः पञ्च कर्मभेदाः, तदर्थानि च पञ्च कर्मेन्द्रि
याणि; सर्वार्थविषयं त्रैकाल्यवृत्ति मनस्तु एकम् अनेक-
वृत्तिकम् ; तदेव वृत्तिभेदात् क्वचिद्भिन्नवद्व्यपदिश्यते-
'मनो बुद्धिरहंकारश्चित्तं च' इति ; तथा च श्रुतिः कामाद्या
नानाविधा वृत्तीरनुक्रम्याह - 'एतत्सर्वं मन एव' इति ।