2026-05-06 05:21:31 by ambuda-bot
This page has not been fully proofread.
सू. ६.]
द्वितीयोऽध्यायः ।
४९९
इत्य-
हा अष्टावतिग्रहाः' इति ; कचिन्नव - 'सप्त वै शीर्ष-
ण्याः प्राणा द्वाववाञ्चौ ' इति ; क्वचिद्दश - ' नव वै पुरुषे
प्राणा नाभिर्दशमी' इति क्वचिदेकादश- ' दशेमे पुरुषे प्राणा
आत्मैकादश:' इति कचिद्वादश - 'सर्वेषां स्पर्शानां त्वगे-
कायनम्' इत्यत्र ; क्वचित्रयोदश-' चक्षुश्च द्रष्टव्यं च '
त्र • एवं हि विप्रतिपन्नाः प्राणेयत्तां प्रति श्रुतयः । किं ता-
वत्प्राप्तम् ? सप्तैव प्राणा इति । कुत: ? गते : ; यतस्तावन्तोऽव-
गम्यन्ते 'सप्त प्राणाः प्रभवन्ति तस्मात्' इत्येवंविधासु
श्रुतिषु, विशेषिताचैते 'सप्त वै शीर्षण्याः प्राणाः' इत्यत्र ।
ननु 'प्राणा गुहाशया निहिताः सप्त सप्त ' इति वीप्सा श्रूय-
ते; सा सप्तभ्यो ऽतिरिक्तान्प्राणान्गमयतीति नैष दोष: ;
पुरुषभेदाभिप्रायेयं वीप्सा - प्रतिपुरुषं सप्त सप्त प्राणा इति;
न तत्वभेदाभिप्राया - सप्त सप्त अन्येऽन्ये प्राणा इति ।
नन्वष्टत्वादिकापि संख्या प्राणेषु उदाहृता ; कथं सप्तैव स्युः ?
सत्यमुदाहृता ; विरोधात्त्वन्यतमा संख्या अध्यवसातव्या ;
तत्र स्तोककल्पनानुरोधात्सप्तसंख्याध्यवसानम् ; वृत्तिभेदापेक्षं
च संख्यान्तरश्रवणमिति मन्यते ॥
अत्रोच्यते-
हस्तादयस्तु स्थितेऽतो नैवम् ॥ ६ ॥