Proofing

This page has not been fully proofread.

४९८
 
,
 
सूत्रभाष्ये
 
[ पा. ४.
 
श्रवणात्; तथापि ब्रह्मप्रकृतिकतेजोबन्नपूर्वकत्वाभिधानाद्वा-
क्प्राणमनसाम् तत्सामान्याच्च सर्वेषामेव प्राणानां ब्रह्म-
प्रभवत्वं सिद्धं भवति । तथा हि- अस्मिन्नेव प्रकरणे
तेजोबन्नपूर्वकत्वं वाक्प्राणमनसामान्नायते - 'अन्नमयं हि
सोम्य मन आपोमय: प्राणस्तेजोमयी वाक्' इति ; तत्र
यदि तावन्मुख्यमेवैषामन्नादिमयत्वम्, ततो वर्तत एव ब्रह्म-
प्रभवत्वम् ; अथ भाक्तम,
तथापि ब्रह्मकर्तृकायां नामरूपव्या-
 
6
 
क्रियायां श्रवणात्, 'येनाश्रुतं श्रुतं भवति' इति चोपक्रमात् '
ऐतदात्म्यमिदं सर्वम्' इति चोपसंहारात, श्रुत्यन्तरप्र-
सिद्धेश्व ब्रह्मकार्यत्वप्रपञ्चनार्थमेव मनआदीनामन्नादिमय-
त्ववचनमिति गम्यते । तस्मादपि प्राणानां ब्रह्मविकारत्व-
सिद्धिः ॥
 
सप्त गतेर्विशेषितत्वाच्च ॥ ५ ॥
 
उत्पत्तिविषयः श्रुतिविप्रतिषेधः प्राणानां परिहृतः; सं-
ख्याविषय इदानीं परिहियते । तत्र मुख्यं प्राणमुपरिष्टाद्वक्ष्य-
 
२. सप्तगत्य -
 
तिः
 
संप्रति
 
तु कति इतरे प्राणा इति संप्र-
धिकरणम् । धारयति । श्रुतिविप्रतिपत्तेश्चात्र विशय: -
 
क्वचित्सप्त प्राणाः संकीर्त्यन्ते - ' सप्त प्राणाः प्रभवन्ति तस्मा-
तू' इति कचिदष्टौ प्राणा ग्रहत्वेन गुणेन संकीर्त्यते -' अ-