Proofing

This page has not been fully proofread.

सु. ४ . ]
 
द्वितीयोऽध्यायः ।
 
४९७
 
प्रतिज्ञाहानिरुपेक्षिता स्यात् ॥
 
तत्प्राक्तेश्च ॥ ३ ॥
 
इतच आकाशादीनामिव प्राणानामपि मुख्यैव जन्म-
श्रुतिः - यत् ' जायते' इत्येकं जन्मवाचिपदं प्राणेषु प्रा-
कश्रुतं सत् उत्तरेष्वाकाशादिष्वनुवर्तते -- ' एतस्माज्जायते
प्राण:' इत्यत्र ; आकाशादिषु मुख्यं जन्मेति प्रतिष्ठापितम् ;
तत्सामान्यात्प्राणेष्वपि मुख्यमेव जन्म भवितुमर्हति न
हि एकस्मिन्प्रकरणे एकस्मिंश्च वाक्ये एकः शब्दः सकृदुच्च-
रितो बहुभिः संबध्यमानः क्वचिन्मुख्यः क्वचिद्वौण इत्यध्य-
वसातुं शक्यम्, वैरूप्यप्रसङ्गात् । तथा ' स प्राणमसृजत
प्राणाच्छ्रद्धाम्' इत्यत्रापि प्राणेषु श्रुतः सृजतिः परेष्वप्यु-
त्पत्तिमत्सु श्रद्धादिष्वनुषज्यते । यत्रापि पश्चाच्छूत उत्पत्ति-
वचनः शब्दः पूर्वैः संबध्यते, तत्राप्येष एव न्याय: - यथा
'सर्वाणि भूतानि व्युच्चरन्ति' इत्ययमन्ते पठितो व्युच्चरन्ति-
शब्द : पूर्वैरपि प्राणादिभिः संबध्यते ॥
 
तत्पूर्वकत्वाद्वाचः ॥ ४ ॥
 
यद्यपि ' तत्तेजोऽसृजत' इत्येतस्मिन्प्रकरणे प्राणानामु-
त्पत्तिर्न पठ्यते, तेजोबन्नानामेव त्रयाणां भूतानामुत्पत्ति-