2026-05-06 05:21:27 by ambuda-bot
This page has not been fully proofread.
सू. २.]
द्वितीयोऽध्यायः ।
४९५
यथा लोकादयः परस्माद्ब्रह्मण उत्पद्यन्ते, तथा प्राणा अपी-
त्यर्थः ; तथा- ' एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि
। खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी '
इत्येवमादिष्वपि खादिवत्प्राणानामुत्पत्तिरिति द्रष्टव्यम् ।
अथवा ' पानव्यापञ्च तद्वत्' इत्येवमादिषु व्यवहितोपमान-
संबन्धस्याप्याश्रितत्वात् - यथा अतीतानन्तरपादादावुक्ता वि-
यदादयः परस्य ब्रह्मणो विकाराः समधिगता:, तथा प्राणा
अपि परस्य ब्रह्मणो विकारा इति योजयितव्यम् । कः पुनः
प्राणानां विकारत्वे हेतुः ! श्रुतत्वमेव ; ननु केषुचित्प्रदे-
शेषु न प्राणानामुत्पत्तिः श्रूयत इत्युक्तम् तदयुक्तम्, प्रदेशा-
न्तरेषु श्रवणात् ; न हि कचिदश्रवणमन्यत्र श्रुतं निवार-
यितुमुत्सहते ; तस्माच्छ्रुतत्वाविशेषादाकाशादिवत्प्राणा अप्यु-
त्पद्यन्त इति सूक्तम् ॥
गौण्यसंभवात् ॥ २ ॥
यत्पुनरुक्तं प्रागुत्पत्तेः सद्भावश्रवणाद्द्रौणी प्राणानामुत्पत्ति-
श्रुतिरिति, तत्प्रत्याह- गौण्यसंभवादिति ; गौण्या असंभवो
गौण्यसंभव:- न हि प्राणानामुत्पत्तिश्रुतिर्गौणी संभवति, प्र-
तिज्ञाहानिप्रसङ्गात् -' कस्मिन्नु भगवो विज्ञाते सर्वमिदं वि-
ज्ञातं भवति' इति हि एकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय त-