Proofing

This page has not been fully proofread.

४९४
 
सूत्रभाष्ये
 
[ पा. ४.
 
एवमादिप्रदेशेषु । तत्र श्रुतिविप्रतिषेधादन्यतरनिर्धारणकार-
णानिरूपणाच्च अप्रतिपत्तिः प्राप्नोति । अथवा प्रागुत्पत्तेः
सद्भावश्रवणाद्गोणी प्राणानामुत्पत्तिश्रुतिरिति प्राप्नोति । अत
इदमुत्तरं पठति-
 
तथा प्राणाः ॥ १ ॥
 
तथा प्राणा इति । कथं पुनरत्र तथा इत्यक्षरानुलोम्यम्,
प्रकृतोपमानाभावात् -- सर्वगतात्मबहुत्ववादिदूषणम् अतीता-
१. प्राणोत्पत्त्यधि- नन्तरपादान्ते प्रकृतम् ; तत्तावन्नोपमानं सं-
 
"
 
करणम् । भवति, सादृश्याभावात्; सादृश्ये हि सति
उपमानं स्यात् -- यथा सिंहस्तथा बलवर्मेति ; अदृष्टसाम्यप्रति-
पादनार्थमिति यद्युच्येत - यथा अदृष्टस्य सर्वात्मसंनिधावुत्प-
द्यमानस्यानियतत्वम् एवं प्राणानामपि सर्वात्मन: प्रत्यनि-
यतत्वमिति तदपि देहानियमेनैवोक्तत्वात्पुनरुक्तं भवेत् ;
न च जीवेन प्राणा उपमीयेरन् सिद्धान्तविरोधात् - जीव-
स्य हि अनुत्पत्तिराख्याता, प्राणानां तु उत्पत्तिराचिख्यासिता;
तस्मात्तथा इत्यसंबद्धमिव प्रतिभातिन, उदाहरणोपात्तेना-
प्युपमानेन संबन्धोपपत्ते:- अत्र प्राणोत्पत्तिवादिवाक्यजातमु-
दाहरणम्- ' एतस्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे
देवाः सर्वाणि भूतानि व्युञ्चरन्ति' इत्येवंजातीयकम् ; तत्र