Proofing

This page has not been fully proofread.

४९०
 
सूत्रभाष्ये
 
[पा. ३.
 
सर्वगतत्वानुपपत्तिश्च बहूनामात्मनाम्,
 
वद तावत् त्वम-
 
दृष्टान्ताभावात् ;
 
के बहवः समानदेशाश्चेति ; रूपादय
इति चेत्, न; तेषामपि धर्म्यशेनाभेदात्, लक्षणभेदाच्च-न तु
बहूनामात्मनां लक्षणभेदोऽस्ति; अन्त्यविशेषवशाद्भेदोपपत्ति-
रिति चेत्, न; भेदकल्पनाया अन्त्यविशेषकल्पनायाश्च इतरे-
तराश्रयत्वात्; आकाशादीनामपि विभुत्वं ब्रह्मवादिनोऽसि-
द्धम्, कार्यत्वाभ्युपगमात् । तस्मादात्मैकत्वपक्ष एव सर्व-
दोषाभाव इति सिद्धम् ॥
 
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द-
भगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ
शारीरकमीमांसासूत्रभाष्ये
 
द्वितीयाध्यायस्य तृतीयः पादः ॥