Proofing

This page has not been fully proofread.

सू. ५३.]
 
द्वितीयोऽध्यायः ।
 
४८९
 
अथोच्येत -- विभुत्वेऽप्यात्मनः शरीरप्रतिष्ठेन मनसा
संयोग: शरीरावच्छिन्न एव आत्मप्रदेशे भविष्यति ; अतः
प्रदेशकृता व्यवस्था अभिसंध्यादीनामदृष्टस्य सुखदु: ःखयोश्व
भविष्यतीति, तदपि नोपपद्यते ; कस्मात् ? अन्तर्भा-
वात्; विभुत्वाविशेषाद्धि सर्व एवात्मानः सर्वशरीरेष्व-
न्तर्भवन्ति तत्र न वैशेषिकैः शरीरावच्छिन्नोऽप्यात्मनः
प्रदेशः कल्पयितुं शक्यः; कल्प्यमानोऽप्ययं निष्प्रदेशस्या-
त्मनः प्रदेश: काल्पनिकत्वादेव न पारमार्थिकं कार्यं निय-
न्तुं शक्नोति ; शरीरमपि सर्वात्मसंनिधावुत्पद्यमानम् - अस्यै-
व आत्मनः, नेतरेषाम् इति न नियन्तुं शक्यम् ।
प्रदेश विशेषाभ्युपगमेऽपि च द्वयोरात्मनोः समानसुखदु:-
खभाजोः कदाचिदेकेनैव तावच्छरीरेणोपभोगसिद्धि: स्यात्,
समानप्रदेशस्यापि द्वयोरात्मनोरदृष्टस्य संभवात्; तथा हि-
देवदत्तो यस्मिन्प्रदेशे सुखदुःखमन्वभूत्, तस्मात्प्रदेशादप-
क्रान्ते तच्छरीरे, यज्ञदत्तशरीरे च तं प्रदेशमनुप्राप्ते, तस्यापि
इतरेण समानः सुखदुःखानुभवो दृश्यते ; स न स्यात्,
यदि देवदत्तयज्ञदत्तयोः समानप्रदेशमदृष्टं न स्यात् । स्वर्गा-
द्यनुपभोगप्रसङ्गश्च प्रदेशवादिनः स्यात् ब्राह्मणादिशरीर-
प्रदेशेष्वदृष्टनिष्पत्तेः प्रदेशान्तरवर्तित्वाच्च स्वर्गाद्युपभोगस्य ।
 
S. W. II. 14
 
,