2026-05-06 05:21:23 by ambuda-bot
This page has not been fully proofread.
४८८
सूत्रभाष्ये
[पा. ३.
स्यादेतत्- अदृष्टनिमित्तो नियमो भविष्यतीति ; नेत्याह-
अदृष्टानियमात् ॥ ५१ ॥
बहुष्वात्मस्वाकाशवत्सर्वगतेषु प्रतिशरीरं बाह्याभ्यन्तरा-
विशेषेण संनिहितेषु मनोवाक्कायैर्धर्माधर्मलक्षणमदृष्टमुपार्थ-
ते । सांख्यानां तावत् तद्नात्मसमवायि प्रधानवर्ति । प्रधान-
साधारण्यान्न प्रत्यात्मं सुखदुःखोपभोगस्य नियामकमुपपद्यते ।
काणादानामपि पूर्ववत्साधारणेनात्ममन:संयोगेन निर्वर्तित-
स्यादृष्टस्यापि अस्यैवात्मन इदमदृष्टमिति नियमे हेत्वभावादेष
एव दोषः ॥
स्यादेतत् - अहमिदं फलं प्राप्तवानि, इदं परिहराणि,
इत्थं प्रयतै, इत्थं करवाणि - इत्येवंविधा अभिसंध्यादय:
प्रत्यात्मं प्रवर्तमाना अदृष्टस्यात्मनां च स्वस्वामिभावं नियंस्य-
न्तीति; नेत्याह--
अभिसंध्यादिष्वपि चैवम् ॥ ५२ ॥
अभिसंध्यादीनामपि साधारणेनैवात्ममन:संयोगेन सर्वा-
त्मसंनिधौ क्रियमाणानां नियमहेतुत्वानुपपत्तेरुक्तदोषानुषङ्ग
एव ॥
प्रदेशादिति चेन्नान्तर्भावात् ॥ ५३ ॥