2026-05-06 05:21:23 by ambuda-bot
This page has not been fully proofread.
सू. ५०.]
द्वितीयोऽध्यायः ।
४८७
भोगापवर्गसिद्धिरिति सांख्या: । सति बहुत्वे विभुत्वे च घ-
कुड्यादिसमाना द्रव्यमात्रस्वरूपाः स्वतोऽचेतना आत्मानः,
तदुपकरणानि च अणूनि मनांस्यचेतनानि, तत्र आत्मद्रव्याणां
मनोद्रव्याणां च संयोगात् नव इच्छादयो वैशेषिका आत्मगु-
णा उत्पद्यन्ते, ते च अव्यतिरेकेण प्रत्येकमात्मसु समवयन्ति,
स संसार: ; तेषां नवानामात्मगुणानामत्यन्तानुत्पादो मोक्ष
इति काणादा: । तत्र सांख्यानां तावचैतन्यस्वरूपत्वात्सर्वा-
त्मनां संनिधानाद्यविशेषाच्च एकस्य सुखदुःखसंबन्धे सर्वेषां
सुखदु:खसंबन्धः प्राप्नोति । स्यादेतत्-प्रधानप्रवृत्तेः पुरुषकैव-
स्यार्थत्वाद्व्यवस्था भविष्यति ; अन्यथा हि स्वविभूतिख्यापना-
र्था प्रधानप्रवृत्तिः स्यात् ; तथा च अनिर्मोक्ष: प्रसज्येतेति नै -
तत्सारम् - न हि अभिलषितसिद्धिनिबन्धना व्यवस्था शक्या
विज्ञातुम; उपपत्त्या तु कयाचिद्व्यवस्थोच्येत ; असत्यां पुन-
रुपपत्तौ कामं मा भूदभिलषितं पुरुषकैवल्यम्; प्राप्नोति तु
व्यवस्थाहेत्वभावाद्व्यतिकरः । काणादानामपि यदा एकेनात्म-
ना मनः संयुज्यते, तदा आत्मान्तरैरपि नान्तरीयकः संयोगः
स्यात्, संनिधानाद्यविशेषात् ततश्च हेत्वविशेषात्फलाविशेष
इत्येकस्यात्मनः सुखदुःखयोगे सर्वात्मनामपि समानं सुख-
दुःखित्वं प्रसज्येत ॥