2026-05-06 05:21:22 by ambuda-bot
This page has not been fully proofread.
४८६
सूत्रभाष्ये
[पा. ३.
स्यातां नाम अनुज्ञापरिहारावेकस्यात्मनो देहविशेषयोगा-
तू ; यस्त्वयं कर्मफलसंबन्धः, स च ऐकात्म्याभ्युपगमे व्यति-
कीर्येत, स्वाम्येकत्वादिति चेत्, नैतदेवम्, असंततेः ; न
हि कर्तुर्भोक्तुश्वात्मनः संततः सर्वैः शरीरैः संबन्धोऽस्ति;
उपाधितन्त्रो हि जीव इत्युक्तम्; उपाध्यसंतानाच्च नास्ति
जीवसंतान:- ततश्च कर्मव्यतिकरः फलव्यतिकरो वा नं
भविष्यति ॥
आभास एव च ॥ ५० ॥
"
आभास एव च एष जीव: परस्यात्मनां जलसूर्यकादिव-
त्प्रतिपत्तव्यः, न स एव साक्षात् नापि वस्त्वन्तरम् ।
अतश्च यथा नैकस्मिञ्जलसूर्यके कम्पमाने जलसूर्यकान्तरं
कम्पते, एवं नैकस्मिञ्जीवे कर्मफलसंबन्धिनि जीवान्त-
रस्य तत्संबन्धः । एवमव्यतिकर एव कर्मफलयोः ।
आभासस्य च अविद्याकृतत्वात्तदाश्रयस्य संसारस्याविद्या-
कृतत्वोपपत्तिरिति, तद्व्युदासेन च पारमार्थिकस्य ब्रह्मा-
त्मभावस्योपदेशोपपत्तिः । येषां तु बहव आत्मानः,
ते च सर्वे सर्वगताः तेषामेवैष व्यतिकरः प्राप्नोति;
कथम् ? बहवो विभवश्वात्मानश्चैतन्यमात्रस्वरूपा निर्गुणा
निरतिशयाश्च ; तदर्थं साधारणं प्रधानम्, तन्निमित्तैषां