Proofing

This page has not been fully proofread.

सू. ४९. ]
 
द्वितीयोऽध्यायः ।
 
;
 
४८५
 
ऽप्यनुज्ञापरिहाराववकल्पेते । सम्यग्दर्शिनस्तर्ह्यनुज्ञापरिहारा -
नर्थक्यं प्राप्तम् — न, तस्य कृतार्थत्वान्नियोज्यत्वानुपपत्तेः-
हेयोपादेययोर्हि नियोज्यो नियोक्तव्यः स्यात् ; आत्म-
नस्त्वतिरिक्तं हेयमुपादेयं वा वस्त्वपश्यन् कथं नियुज्येत ;
न च आत्मा आत्मन्येव नियोज्यः स्यात् । शरीरव्यति-
रेकदर्शिन एव नियोज्यत्वमिति चेत्, न तत्संहतत्वाभिमा-
नात् — सत्यं व्यतिरेकदर्शिनो नियोज्यत्वम् ; तथापि व्योमादि-
वद्देहाद्यसंहृतत्वमपश्यत एव आत्मनो नियोज्यत्वाभिमानः; न
हि देहाद्यसंहतत्वदर्शिनः कस्यचिदपि नियोगो दृष्टः, किमुतै-
कात्म्यदर्शिनः । न च नियोगाभावात् सम्यग्दर्शिनो यथेष्टचेष्टा-
प्रसङ्गः, सर्वलाभिमानस्यैव प्रवर्तकत्वात्, अभिमानाभावाञ्च
सम्यग्दर्शिनः । तस्माद्देहसंबन्धादेवानुज्ञापरिहारौ -- ज्योति-
रादिवत् -- यथा ज्योतिष एकत्वेऽप्यग्निः क्रव्यात्परिहि-
यते, नेतरः; यथा च प्रकाश एकस्यापि सवितुरमेध्यदेश-
संबद्धः परिहियते, नेतरः शुचिभूमिष्ठः ; तथा भौमा: प्र-
देशा वज्रवैडूर्यादय उपादीयन्ते, भौमा अपि सन्तो नरक-
लेबरादयः परिह्नियन्ते; तथा मूत्रपुरीषं गवां पवित्रतया परि-
गृह्यते, तदेव जात्यन्तरे परिवर्ज्यते -- तद्वत् ॥
 
असंततेश्वाव्यतिकरः ॥ ४९ ॥