Proofing

This page has not been fully proofread.

४८४
 
सूत्रभाष्ये
 
[पा. ३.
 
सिद्धेः ; स्वभावप्राप्तस्तु भेदोऽनूद्यते ; न च निरवयवस्य ब्र-
ह्मणो मुख्योंऽशो जीवः संभवतीत्युक्तम्; तस्मात्पर एवैकः
सर्वेषां भूतानामन्तरात्मा जीवभावेनावस्थित इत्यतो वक्त-
व्या अनुज्ञापरिहारोपपत्तिः । तां ब्रूमः -
 
6
 
अनुज्ञापरिहारौ देहसंबन्धाज्ज्यो-
तिरादिवत् ॥ ४८ ॥
 
'ऋतौ भार्यामुपेयात्' इत्यनुज्ञा, 'गुर्वङ्गनां नोपगच्छे-
त्' इति परिहारः; तथा 'अग्नीषोमीयं पशुं संज्ञपयेत्'
इत्यनुज्ञा, 'न हिंस्यात्सर्वा भूतानि' इति परिहार
: ;-
एवं लोकेऽपि मित्रमुपसेवितव्यमित्यनुज्ञा, शत्रुः परिहर्तव्य
इति परिहार:- एवंप्रकारावनुज्ञापरिहारौ एकत्वे ऽप्यात्मनः
देहसंबन्धात् स्यात् । देहैः संबन्धो देहसंबन्धः ; कः पुनर्दे-
हसंबन्ध: ? देहादिरयं संघातोऽहमेव- इत्यात्मनि विपरी-
तप्रत्ययोत्पत्तिः ; दृष्टा च सा सर्वप्राणिनाम् - अहं गच्छामि
अहमागच्छामि, अहमन्धः अहमनन्धः, अहं मूढः अहममूढः
इत्येवमात्मिका ; न हि अस्या: सम्यग्दर्शनादन्यन्निवारकमस्ति ;
प्राक्तु सम्यग्दर्शनात्प्रततैषा भ्रान्तिः सर्वजन्तुषु । तदेवम-
विद्यानिमित्तदेहाद्युपाधिसंबन्धकृताद्विशेषादैकात्म्याभ्युपगमे-